पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् इत्थं नन्दनिदेशतश्चलितयोः प्रत्यष्वकुञ्जदुमं राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः . ॥ १ ॥ न या प्रन्थग्रन्थिप्रकटनपटुः किं तु तददो द्वयं युक्तं कर्तुं प्रभवतितरां कुम्भनृपतिः ॥ १८ ॥ शृङ्गारोत्तरसत्काव्यवेदिविद्वन्मुदे मया । मेघैर्मेंदुरमित्यादिपद्यं व्याक्रियतेऽधुना ॥ १९ ॥ गमकाल्मपपेशलतया मध्यमग्रामे षाडवेन मध्यमग्रहेण मध्यमादिरागेण गीयते । गणपतिमभिमतफलदं वरदं प्रणिपत्य सिद्धिगुणविशदम् । गीतौ जयदेवकृते धातुं कुम्भो नृपस्खनुते ॥ २० ॥ अथ कुम्भकर्णनृपतिः स्तुत्वा नत्वा सरस्वती देवीम् । स्वरपाठतेनकानां करोति गुम्पं समानार्थम् ॥ २१ ॥ मेवैरिति । जयन्ति सर्वोत्कर्षेण वर्तन्ते । सर्वोत्कृष्टत्वेन नमस्करणीयत्वमुक्तम् । । तेन नमस्क्रियाकाव्यमुखं योतितम् । आशीर्वा । कास्ता रह:केलयः सुरतक्रीडाः । 'रहो गुह्ये रहो रते' इति । तासां विषयं निर्दिशति । क्व । यमुनाकूले प्रत्यध्वकुञ्ज- मम् । अध्वनि कुअद्रुमोऽध्वकुअनुमः । अध्वकुअनुमं प्रतीत्यध्वकुअतुमम् | ननु चात्र नित्यसमासत्वाद्वाक्येन न भवितव्यम् । नैतदस्ति । प्रतिशब्दस्य वीप्सायां कर्मप्रवचनीयसंज्ञा विहिता । तद्योगे यथा स्यादित्येवमर्थः । तस्याश्च वाक्य । एव प्रयोगो नात्रेति वाक्यमपि स्यात् । 'अर्थमर्थं प्रति' इत्यादि भाष्यकारप्रयोगाश्च । कस्मिन्सति । रह एकान्ते । एकान्तं कयोः । राधामाधवयोः । अत्र राधाया जगद्गु- रुपरिग्रहेण सकलमातृत्वेनाभ्यर्हितत्वादल्पाक्षरतरत्वाच्च पूर्वनिपातः । किलक्षणयोः । इत्थं वक्ष्यमाणप्रकारेण । कृष्णोक्तेरनु नन्दनिदेशत इति । नन्दसमीपाच्चलितयोः । । तमेव प्रकारमाह - हे राधे, तत्तस्माद्धेतोरिमं मल्लक्षणं जनं त्वमेव गृहं प्रापय | सा- मान्यनारीव्यावृत्त्या गृहिणीनिर्वयें संभोगादिकर्मणि समुदिता भवेत्यर्थः । अत्र गृह- शब्देन तात्स्थ्यागृहिण्युच्यते । गृहशब्दच्छलेन तामेव पुरस्कृत्य वनविहारदर्शनात् । अत्र प्राप्नोतिरुदयार्थे वर्तते । 'प्राक्का भोक्ष्ययुक्तिषु' इति चूडामणिः (१) । त्वयैवाहं गृहिणीमान् स्यामिति यावत् । एवकारोऽन्ययोगव्यावृत्त्यर्थः । तस्मादिति किम् । यतोऽयं मलक्षणो जनो भीरुः । भीरुरिति । एभिर्भावहेतुभिः स्मराहती: सोढुमस- ) I रह खलु प्रारीप्सितसमाप्त्यर्थमेतत्काव्यं प्रतिपाद्य राधामाधवकैलिस्मरणरूपं मङ्गलमा- दायाचरति ~~ मेघैरिति । राधामाधवयो रहःकेलय एकान्तक्रीडा जयन्ति सर्वोत्कर्षेण व र्तन्ते । किंभूतयोः । इत्थमनेन प्रकारेण नन्दनिदेशतो नन्दाशया चलित्तयोः प्रस्थितयोः । कीदृशो नन्दनिदेश इत्यत आह - त्वमेवेत्यादि । हे राधे, तत्तस्मात्त्वमेवेमं कृष्णं गृहं प्रापय । अत्रैवकारः कोपोक्तौ । बाल्येऽयं यत्त्वयैतावद्दूरमानीतस्तस्मात्त्वमेव गृहमपि प्रा- पयेत्येवाभिप्रायात् । कुतः । यतोऽयं कृष्णो नक्तं रात्रौ भीरुः शिशुत्वाद्वयशीलः । भय- हेत्वन्तरमाह -- मेघैरित्यादि । अम्बरमाकाशं मेघैर्मेंदुरं स्निग्धम् । तथा च वनभुवः Dgilizard by Google