श्री जयदेवकविविरचितं
गीतगोविन्दकाव्यम् ।कुम्भनृपतिप्रणीतरसिकप्रियाख्यव्याख्यया महामहोपाध्यायशंकरमिश्रनिर्मितरसमञ्जर्याख्यव्याख्यया च
संवलितम् ।
प्रथमः सर्गः १
मेघैर्मेदुमम्बरं वनभुवः श्यामास्तमालद्रुमै-
र्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय ।
रसिकप्रिया.
कल्याणं कमलापतिर्दिशतु मे य: कौस्तुभे राधया
वीक्ष्य स्वं प्रतिबिम्बितं प्रतियुवत्येषेति तर्काकुलम् ।
आश्लेषोन्मुखयापि मानपरया मन्वानया कैतवं
तिर्यग्वक्रितकन्धरं वलितया सासूयमालोकितः ॥ १ ॥
सोऽव्यान्मामरविन्दनाभ उदयद्यन्नाभिपद्मालया
पद्मा पद्मविमीलमीलनविधिप्रावीण्यवन्नेत्रयोः ।
योगादर्धनिमीलिताम्बुजवशात्संभोगभोगेतरा-
वस्थाद्वन्द्वभवानुभूतिजनितक्रीडासुखान्यन्वभूत् ॥ २॥
दिश्यान्मेऽर्धशिवातनुः स भगवान्नित्योदितां संपदं
शम्भुर्विश्वजयश्रियः परवशीकारैकसत्कार्मणम् ।
यत्रैकाङ्गनवीनविभ्रमरसादेकाङ्गगुप्तेरना-
खादात्संभवदद्भुतैकपरमा जागर्ति हेमाद्रिजा ॥ ३ ॥
नत्वा मतङ्गभरतप्रमुखान्सुगीत-
संगीतशास्त्रनिपुणाञ्जयदेववाचाम् ।
रसमञ्जरी.
शंकरजगदम्बिकयोरङ्के पङ्केन खेलन्तम् ।
लम्बोदरमवलम्बे यं वेद न तत्त्वतो वेदः ॥ १ ॥