पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१ स्नात्वा पाद्यादिभिश्चैव पूजयामास भक्तितः । तस्मिन्सप्तदिनं तत्र दिव्यदेही बभूव सः ॥ एवमन्येऽपि ये तत्र यं यं कृत्वा मनोरथम् । स्नानपूजादिकं चक्रुरापुस्तेऽखिलमीप्सितम् ॥ इत्येतज्जयदेवस्य माहात्म्यं कथितं मया । यः पठेच्छृणुयादेतत्तस्य भक्तिर्दृढा भवेत् ॥ कामी कामानवाप्येत जगन्नाथप्रसादतः । उत्तमां गतिमाप्नोति दुर्लभामपि योगिनाम् ॥ इति श्रीभगवद्भक्तिमाहात्म्ये जयदेवचरितं नामैकचत्वारिंशः सर्गः ॥” इति । श्रीयुतमहामहोपाध्याय श्री दुर्गाप्रसादपण्डितैः काव्यमालायां प्रकाशितायाः श्रीगोन वर्षनाचार्य प्रणीतार्थासप्तशत्याष्टिप्पणे जयदेवकविसमयो युच्या निर्णीतः । तथाहि - " जयदेवकविश्च वनदेशाधिपस्य बल्लालसेनसूनोर्लक्ष्मणसेनस्य सभायामासीदिति श्री- सनातनगोखामिनां मतम् । 'गोवर्धनच शरणो जयदेव उमापतिः । कविराजश्व, रत्नानि समितौ लक्ष्मणस्य च ॥' इत्ययं श्लेको लक्ष्मणसेनसभागृहद्वारोपरि शिलाया- मुत्कीर्ण आसीत् । तस्माद्गोवर्धनजयदेवादयः सर्वेऽपि लक्ष्मणसेनसभायामासन्निति केचित् । लक्ष्मणसेनश्च ख्रिस्तसंवत्सर स्यैकादशशतकसमाप्तिपर्यन्तं वदेशं पालया- | मासेति केचिदितिहासविदः' इति । अतो जयदेवकविजीवनसमयोऽपि ख्रिस्तसंवत्सर- स्यैकादशशतक आसीदिति फलितार्थ: । जयदेवकविकृतो गीतगोविन्दकाव्यादन्यः कोऽपि ग्रन्थो लोके न क्वापि श्रुतो नापि प्रसिद्धः । प्रसन्नराघवनाटककर्ता जयदेवस्तु कौण्डिन्यगोत्रोद्भवः सुमित्राकुक्षिजन्मा महादेवतनयः । शृङ्गारमाधवीयचम्पूप्रणेता जयदेवश्च अज्ञातपितृनामादिकः कृष्ण- दासेत्युपपदवान् । अत उभावप्येतौ गीतगोविन्दकाव्यप्रणेतुर्जयदेवाद्भिन्नाविति सुविश दमेतत् । गीतगोविन्दकाव्यस्थं 'उन्मीलन्मधुगन्धलुब्ध' इत्यादिपद्यं खिस्तवर्षीयचतुर्दशश- तकसमुद्भवेन वङ्गदेशीयेन श्रीविश्वनाथकविराजेन स्वकृतसाहित्यदर्पणाख्यग्रन्थस्य दशमपरिच्छेदे वृत्त्यनुप्रासोदाहरणतयोपन्यस्तं दृश्यते । एतेन तत्कालीना विद्वां- सोऽपि गीतगोविन्दकाव्यं सत्काव्यतया स्वीचकुरिति ज्ञायते । अन्न प्रकाशितयोष्टीकयोर्मध्ये प्रथमा तावद्रसिकप्रियाख्या श्रीकुम्भनृपतिविरचिता । स्था आदर्शपुस्तकद्वयमस्मत्सुहृत्तमैः महामहोपाध्यायश्रीमद्दुर्गाप्रसादपण्डितैः कति- पयसंवत्सरेभ्य. पूर्वे मदभ्यर्थनयैव मनिकटे प्रेषितमासीत् । लेखकप्रमादप्रचुराभ्यां निरुक्कादर्शपुस्तकाभ्यां यथामति संशोध्य प्रकाशितेयं टीका रसिकमनोविनोदनाय | १ काव्यामालायां प्रकाशितस्य आर्यासप्तशतीग्रन्थस्य प्रथमपृष्ठस्थटिप्पण्यां द्रष्टव्यम् । २ प्रसन्नराघवनाटक प्रस्तावनायां ' विलासो यद्वाचां' इत्यादि तथा 'लक्ष्मणस्येव इत्यादि लोकद्वयं द्रष्टव्यम् । (निर्णयसागरमुद्रित पुस्तकस्य १०५ ) ३ शृङ्गारमाधवीयम्वादौ मङ्गलाचरणश्लोके द्रष्टव्यम् । इयं चम्पूः नाथापि कापि मुद्रयित्वा प्रकाशिता । अस्या हस्तलिखितमपूर्ण पुस्तक मेकं मया दृष्टमासीत् । Dglized by Google