पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

असतां तादृशानां तु मृत्युं श्रुत्वा तु दुःखितः । रुरोद च्छ्झना तस्मात्ततोष पुरुषोत्तमः ॥ ददौ हस्तौ च पादौ च किमाश्चर्यमिदं हरेः । अथ राजातिचिन्तार्तो जयदेवं प्रणम्य च ॥ पप्रच्छ किमिदं चित्रं ब्रूहि मत्कृपया द्विज । उवाच जयदेवस्तं वृत्तान्तं पूर्वतः स्वकम् ॥ चौराणां च यथा तत्त्वं ततो राजा मुमोद ह । तुष्टाव जयदेवं तं धन्योऽसि त्वत्समो न वै ॥ दृष्ट: श्रुतो वा लोकेऽस्मि न्मित्रशत्रुसमः पुमान् । धन्योऽहमिति नीचोऽपि त्वत्संसर्गान संशयः ॥ इत्यादि वचसा राजा स्तुत्वागत्य स्वमन्दिरम् । आर्य पुत्रदारेभ्यो मन्तिभ्यः प्रोफवान्स्वयम् ॥ अथ कालेन कियता जयदेवो जरां गतः । तथापि नित्यकर्मादि न तत्याज कदाचन ॥ महास्नानवतं तस्य नित्यसंकल्पितं पुरा । एकदा कृतशौचादिश्चलितो जाह्नवीतटम् ॥ ज्ञानमार्गे जराकान्तो विशश्राम क्वचित्कचित् । गत्वा कथंचिद्गङ्गायां लात्वा पीत्वा जलं पुनः || आगच्छन्पयि बभ्राम निपपात मुमूर्च्छ च । ततस्ते पथिकाः सर्वे सिषिचुस्तं च वाससा ॥ छायां चक्रुस्ततो राजा स्नात्वा तंत्राजगाम है | दृष्ट्वा तं जयदेवं तु तामवस्थामुपागतम् ॥ आरोग्य शिबिकायां तु प्रापयामास मन्दिरम् । स्वयमागत्य च पुनः कृताञ्जलिरुवाच तम् ॥ अहो जीणंतर चेदं शरीरं ते महामते । मया हि पादचारेण नातुमद्यागतं पुनः ॥ ददामि शिबिकां तुभ्यं कुरुष्व मम भाषितम् । इति श्रुत्वा तु राजानं जयदेव उवाच सः ॥ ममैव शिबिका राजन्संरक्ष भवनेऽधुना । पादाभ्यामेव गत्वाहं लास्यामीति व्रतं मम ॥ यथाशक्तिस्ततो यामि मा कुरुष्वाग्रहं पुनः । इति श्रुत्वा ततो राजा जगाम भवनं स्वकम् ॥ संपूज्य देवतां भुक्त्वा राजकार्यपरोऽभवत् । अथ तस्यां तु राज्यां वै राजमान्यः पुरोहितः ॥ राजाहता महान्तो ये तत्र प्रामे द्विजाः स्थिताः । ते सर्वे ददृशुः खप्ने जयदेवोऽपि चाद्भुतम् ॥ Dglized by Google