पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ गजास्तवप्रबन्धः । तीर्थवरकारिणी पूर्वजोदारिणी हिमशैलपाषाणभेदे | नागरं प्लावयसि पूरयसि सागरं संगता विन्ध्यगिरिपादे ॥ नमो० ४ शुभसलिलनिर्धौत पुलिनवति कुर्वतस्तव नामनिर्मलालापम् । चन्दिता वीक्षिता चिन्तितावगाहिता मज्जिता मम हरसि पापम् न० इह निखिलमुनिगणैरिह निखिलसुरगणैरिह निखिलवेदैरुदारे । पीयसे गीयसे स्तूपसे जहुमुनिकन्यके संसारसारे ॥ न ० ॥ ६ गण्डूषमिह मेऽघशतमधिजयतु तव करनिकरगम्भीरतोये । परलोकबन्धुरसि सुन्दरसिन्धुरसि तटिनि सुरसदनसाधनोपाये न. इति रामलक्ष्मणकौशिकानुज्ञया सुरसरित्कृतनमस्कारम् । भणन्तमिह सादरं धीरजयदे व कविमुत्तास्यसि भवजलधिपारम् न. इति गङ्गास्तवप्रबन्धः समाप्तः । तीर्थवरेति । हे हिमशैलस्य हिमाचलस्य पाषाणानां भेदो भेदनं यस्यास्तस्याः संबुद्धौ । त्वं तीर्थवरस्य श्रेष्ठतीर्थस्य कारिणी असि । पुनः कीदृशी । पूर्वजानामुद्धारिष्यसि । हे गणे, त्वं नगराणां समुदायो विद्यते यत्र तन्नागरं भूमण्डलं प्लावयसि पूर्ण करोषि । पुनः कीदृशी | सागर समुद्रं पूरयसि । पुनः कीदृशी । विन्ध्यगिरिपादे विन्ध्याचलमूळे सङ्गता मिलितासि ॥ ४ ॥ शुभेति । हे शुभसलिलेन पवित्रोदकेन निर्घोतं क्षालितं यत्पुलिनं तटं तदस्ति यस्यास्तस्याः संबुद्धौ | त्वं मम पापं हरसि नाशयसि । कथंभूतस्य मम | तव नाम्नो यो निर्मलालापः पवित्रालापस्तं कुर्वतः । कथंभूता त्वम् । वन्दिता नमस्कृता । वीक्षिता दृष्टा । चिन्तिता स्मृता । अवगाहिता प्रविष्टा । मज्जिता नाता सती एभिः प्रकारैः पापं हरसि ॥५॥ इहेति । हे उदारे वदान्ये । हे संसारसारे । संसारे सारभूता त्वमसीत्यर्थ: । हे जनुमुनिकन्यके हे जाहवि, त्वमिह संसारे । अथवा ब्रह्माण्डे निखिलमुनिगणैः समप्रभु निसमुहैः पीयसे । इह निखिलदेवगणैः समप्रदेवसमूहैः गीयसे । इह निखिलवेदैः समस्तवेदैः स्तूयसे ॥ ६ ॥ गण्डूषमिति । हे करनिकरग म्भीरतोये । कराणां लहरीणां निकरः समूहस्तेन गम्भीरमक्षोभ्यं तोयं यस्यास्तस्याः संबुद्धौ । हे सुरसदनसाधनोपाये । सुराणां देवानां सदनं स्थानं तस्य साधनं प्राप्ति- खस्योपायभूते । हे तटिनि तटवति हे गन्ने । त्वं परलोकबन्धुः परलोके बन्धुरूपासि । पुनः कथंभूतासि । सुन्दराणां देवानां सिन्धुर्नद्यसि । अतस्तव गण्डूषमाचमनं मे मम अघशतं पातकशतमधिजयतु नाशयतु । इहास्मिँल्लोके ॥ ७ ॥ इति रामेति । रामलक्ष्मणकौशिकानुज्ञया । कौशिको विश्वामित्रः रामलक्ष्मणकौशिकानामनुशया आज्ञया । सुरसरितो गङ्गायाः कृतो नमस्कारो यस्यां क्रियायां यथा भवति तथा । सादर मादरपूर्वकं यथा भवति तथा । इति पूर्वोकप्रकारेण । इहास्मिँल्लोके भणन्तं कथयन्तं धीरजयदेव कवि भवजलधिपारं भवरूपो यो जलधिः समुद्रस्तस्य पारम- न्तमुत्तारयसि प्रापयसीत्यर्थः ॥ ८ ॥ इति श्रीजयदेवकृतगङ्गास्तवप्रबन्धटीका समाप्ता Google Dglized by