पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गङ्गास्तवप्रबन्धः । मधुमथनमूर्तिवर इन्दुकरकामुकं वहसि बहु वारि सुतरङ्गे । हरिचरणनखभिदुरजगदण्ड निर्गता ब्रह्मजलपात्रकृतसङ्गे ॥ १ ॥ नमो देवि गते नमो देवि गङ्गे हर निखिलमघमलकनन्दे ॥ ध्रुवम् ॥ त्वमसि जनपाविनी चतुरुदधिगामिनी सप्तर्षिकुलसुकृतसारें । कनकगिरिलखित सकलमुनिवन्दिते दरमुकुटसितकुसुममाले । न० सगरमृतसङ्गमे लसदमरसुन्दरीदतिके दुष्कृतिदुरापे ।" निरयगतिबाधके निर्वाणसाधके भक्तजनहृतसंतापे ॥ नमो० ३ मधुमथनेति । हे देवि, हे गङ्गे, तुभ्यं नमः । आदरे द्विरुक्तिः । हे अलकनन्दे, त्वं निखिलं समग्रमधं पातकं हर नाशय । मधुमथनस्य श्रीकृष्णस्य या मूर्तयस्तासां बरा श्रेष्ठा तस्याः संबुद्धौ हे मधुमथनमूर्तिवरे, त्वं बहुवारि अतिजलं वहसि । सुष्टु उत्तमास्तरङ्गा यस्यास्तस्याः संबुद्धी । हे ब्रह्मजलपात्रकृतस त्वं हरिचरण- नखैर्भिदुर भिन्नं यज्जगतोऽण्डं ब्रह्माण्डं तस्मान्निर्गतासि प्रकटितासि ॥ १ ॥ त्वमसीति । हे सप्तर्षिकुलस्य सुकृतं पुण्यं तस्य सारे सारभूते । कनकगिरिमें दित उल्लवितो यथा । तस्याः संबुद्धी हे कनकगिरिलकिते । हे सकलैः समस्तैर्मुनि भिर्वन्दिते । हे हरमुकुटस्य सितकुसुमानां श्वेतपुष्पाणां माले मालाभूते । त्वं जनानां विश्वेषां पाविनी पवित्रकर्त्री असि । पुनः कीदृशि । चत्वारश्च ते उदधयश्च तान्प्रति- गच्छति सा चतुरुदधिगामिनी असि ॥ २ ॥ सगरेति । हे सगरसुतसङ्गमे । सगर- सुतानां सहमो यस्यास्तस्याः संबुद्धौ । सङ्गमेन पावनकर्त्रीत्यर्थः । हे लसन्त्यः शोभ- माना या अमरसुन्दयों देवानास्तासां दूतिके आपिके । हे दुष्कृतिभिर्दुष्कर्म कारि- मिर्दुःखेनाप्नुमशक्ये । हे निरयगतिबाधके नरकगतिनिवारके । हे निर्वाणसाधके मो- क्षप्रदे । हे भक्तजनहृतसंतापे, भकजनानां हृतः संतापो यया तस्याः संबुद्धिः ॥३॥ १ यथप्यस्य प्रबन्धस्य 'भणन्तमिह सादरं धीरजयदेवकविमुत्तारयति' इत्यायन्तिमपदां- र्येन गीतगोविन्दकर्तृजयदेकविप्रणीतत्वमापांततस्तयेते, तथापि गीतगोविन्दस्थाखिलप्रबन्ध- साधारणानां पदलालित्य रचनाचातुरी- कल्पनाचमत्कार - वर्णनाने पुण्यादीनां निरुक्तज- यदेवकृतित्वानुमापकानामत्र केशतोऽप्यनधिगमानावं प्रबन्धो गीतगोविन्दकाभ्यकर्तुः श्री- जयदेवस्य कृतिरिति बलीयोऽनुमानं विजृम्भतेतराम् । अतोऽस्य प्रबन्धस्य प्रणेता निरक्त- जयदेवाद्भिनो भीरजयदेवनामा अन्यः कोऽपि कविः स्यादिति निष्कर्षः । अस्य च प्रबन्धस्य हस्तलिखितं द्वित्रपत्रात्मकं सटीकं पुस्तकमेकमस्मत्सुहृद्रैः श्रीयुतैः 'बी. ए.' इत्युपपदधारिभिः 'तमसुखराम मनसुखराम त्रिपाठी' इत्येतैरस्मन्निकंटे प्रेषितम् । तदनुरोधेनैव सोऽयं काप्यमुद्रितचरः प्रबन्थः रसिकजनप्रीयै मुद्रयित्वा प्रां काश्यं नीत इत्यकं विसरेण ॥ Google Digitized by