पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

B सर्गः १२] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् इत्थं केलिततीविहृत्य यमुनाकूले समं राधया तद्रोमावलिमौक्तिकावलियुगे वेणीभ्रमं बिभ्रति । तत्राह्लादिकुचप्रयागफलपोलिप्सावतोईस्तयो- र्व्यापाराः पुरुषोतमस्य ददतु स्फीतां मुदां संपदम् ॥ १३॥ इति श्रीजयदेवकृतौ गीतगोविन्दे सुप्रीतपीताम्बरो नाम द्वादशः सर्गः ॥ समाप्तं चेदं काव्यम् ॥ क्यते तत्तु कीर्तितं गुणकीर्तनम् ॥ १२ ॥ इत्थमिति । पुरुषोत्तमस्य हस्तयोर्व्यापाराः स्फीतां मुदां संपदं दंदतु । किंविशिष्टयोईस्तयोः । तत्र वेण्यामाल्हादो विधसे ययोस्ते आह्लादिनी। कुचावेव प्रयागफले वटफले । आह्लादिनी च ते कुचप्रयागफले च आह्लादि- कुचप्रयागफले। तयोर्लिप्सां वाञ्छां बिभ्रत इति लिप्साभृतौ । तयोर्लिप्साभृतोः । किं कृत्वा । इत्थं पूर्वोकप्रकारेण खाधीनभर्तृकया राधया सह यमुनाकूले क्रीडापरंपरा विहृत्येति स्वेच्छया विधानपराम् । क्व सति । तद्रोमावलिमौक्तिकावलियुगे । तस्या रोमावलि मौक्तिकानामावलिहरिः । तयोर्युग्मे । वेण्या इति गङ्गायमुनयोः सङ्गमस्य भ्रमं विलासं बिभ्रति सति । रोमावलिर्यमुनयोपमीयते कृष्णत्वात् । मौक्तिकावलिश्चोज्ज्वलत्यागङ्गयो बमीयते । तत्संगमे प्रयागो भवत्येव । कुचौ तत्फलाभ्यामुपमीयेते। कुचप्राप्तेः प्रयाग- फलप्राप्तिरिति रूपकमलंकारः || शार्दूलविक्रीडितं वृत्तम् । स्वाधीनभर्तृका नायिका । तलक्षणम्–‘यस्या रतिगुणाकृष्टः पतिः पार्श्वे न मुञ्चति । विचित्रविभ्रमासक्ता सा खा- भीनपतिर्यथा ॥ लिखति कुचयोः पत्रं कण्ठे नियोजयति नजं तिलकमलिके कुर्वन्ग- डादुदयस्यति कुन्तलान् ॥ इति चटुशतैर्वारर्वारं वपुः परितः स्पृशन् विरहविधुरो नास्याः पार्श्वे विमुवति वल्लभः ॥' पाञ्चाली रीतिः | भारती वृत्तिः । पाश्वाली गीतिः । 'आदितालस्तथा पञ्च हरवकसमुद्भवाः । प्रतिमण्ठश्चतुर्मात्रो मण्ठश्चैवाइतालकः ॥ तालो वर्णयतिश्चैव जयमङ्गलसंज्ञितः । विजयानन्दनामा च जयश्रीसंज्ञकः परः ॥ प्रतितालं पदानि स्युः पाटास्तदुभयं तथा । मध्ये मध्ये यथाशोभालप्तियुक्ति- विशेषवत् । विशेषतो वर्णयतौ यदा श्रीसंज्ञिकोऽपि च ॥ तेनकाः स्युः पदस्थाने

प्रतितालेन वेश्यते । मुक्तिपादाक्षरैर्युक्तैरालापेन पुरस्कृतैः ॥ पदान्येव षोडश वै ताला

एकोनविंशतिः । गोंडः स्याद्देशतालादिरागः सर्वपदाश्रयः ॥ धीरोदात्तगुणैर्युको वर्ण्य उत्तमनायकः । छन्दः स्यात्स्वेच्छया बद्धं समानादिगुणा दृशः ॥ इति श्रीसुप्रीत- पीताम्बरतालश्रेणिनामा अष्टाविंशः प्रबन्धः ॥ 1 > यस्य द्वादशराजकं वितनुते सेवां स्थितं किङ्करं यस्मिन्द्वादशभानुभानुनिकरो भात्येककालोद्गतः । यश्च द्वादशभाः प्रभुः प्रकृतिवद्याप्यैव लोकं स्थितः सोऽयं द्वादशसर्गगं विवरणं श्रीकुम्भकर्णो व्यधात् ॥ १ अयं श्लोकः प्रक्षिप्त इति भाति । आदर्शपुस्तकान्तरेष्वदर्शनात् । Dgificed by Google