पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ गीतगोविन्दकाव्यम् [सर्गः १२ साध्वी माध्वीक चिन्ता न भवति भवतः शर्करे कर्कशासि द्राक्षे द्रक्ष्यन्ति के त्वाममृत मृतमसि क्षीर नीरं रसस्ते । माकन्द क्रन्द कान्ताधर धरे न तुलां गच्छ यच्छन्ति भावं यावच्छृङ्गारसारं शुभमिव जयदेवस्य वैदग्ध्यवाचः ||१२ ॥ ११ ॥ ) इदानीं कविरात्मनः प्रबन्धस्य माधुर्यादिगुणवत्त्वं ख्यापयति - सा ध्वीति । जयदेवस्य वैदग्ध्यवाचः शुभमिव शुभवत् । यावत्सारं यावत्सारस्य संभवः इति यावत्सारम् | यत्र कुत्रापि सारं विद्यते तत्र शृङ्गाररसस्य सारं तत्त्वं ज्ञातुमिच्छन्ति । यथा यत्र कुत्रचिच्छुभं मङ्गलं विद्यते तत्र जगन्मङ्गलं चरितानुवर्णनाद्यथा गन्तुमिच्छन्ति तथाह । तर्हि हे माघ्वीक, तवेयं चिन्ता साध्वी न मवति । एतत्सदृशं भवामीति चिन्ता न कार्या। कथम् | त्वयि तथा साराभावात् । तदा भवतु इति पाठान्तरम् । अथ भवतीति पाठपक्षे – हे शर्करे, भवती कर्कशासीति योज्यम् । तद्गवेषणं योग्ये(?) त्वयि सारं नांस्त्येव । हे द्राक्षे, त्वं मा भैः । त्वां के द्रक्ष्यन्ति । न केऽपीत्यर्थ: । हे अमृत, त्वया नाना- ऽनेन गर्यो न घार्यः । तदपेक्षया त्वं मृतमसि । हे क्षीररस, रसमहमिति त्वं मा गर्वीः । तब रसो नीरमेव । नितरामीर्यते प्रेर्यत इति नीरम् । हे माकन्द, पक्कसर सफल, त्वं कन्द वैकल्यं प्राप्नुहीति किम् । विकलस्य चिन्तामपि ते न करिष्यन्ति । हे कान्ताधर, त्वं ता- भिस्तुलां न धर। अहं त्वत्तुल्यो भवामीति मा संप्रतिपद्येथाः। अथ हे कान्ताघर, वैकल्यं न गच्छेत्यर्थः । यतो जयदेवस्य वैदग्ध्यवाची यावत्सार यावद्भिः सारैः सह तुलो गन्तु- मिच्छन्ति । तर्हि यावत्ता न तुलयन्ति तावद्भवद्भिरेवमुक्तप्रकारेण स्थातव्यम् । किंभूता वाचः । शुभं मंहलं शृङ्गारसारमिव । अत्र 'मङ्गलादीनि मङ्गलमयानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते' इति न्यायमाश्रित्य प्रबन्धान्ते शुभशब्दोपादानम् । अत्र तिरस्कृतो- पमालंकारः । स्त्रग्धरा वृत्तम् । आरभटी वृत्तिः । वैदर्भी रीतिः । गुणकीर्तनं नाम नाट्या- लंकारः । तल्लक्षणं सङ्गीतराजे- 'बहूनां गुणिनां यत्र नामार्थजनितैर्गुणैः । एकोऽपदि- एतत्काव्यविवेचनप्रणयिनां यत्संशयोन्मूलना. स्पुण्यं यच हरिस्मृतौ प्रतिपदव्याख्यासु मे संचितम् । सेन प्रीतमनास्वनोतु सततं श्रेयो गम श्रीपतिः शवन्मङ्गलमातनोत्वपि सतां संलापतां शृण्वताम् ॥ इति श्रीमहामहोपाध्यायदिनेश्वर मिश्रात्मजश्रीमहामहोपाध्यायशंकर मिश्र- विरचितायां श्रीशालिनाथकारितायां गीतगोविन्दटीकायां रसमऊ- रीसमाख्यायां द्वादशः सर्गः समाप्ति पफाण ॥ १ 'न भवतु भवती शर्करे' इति पाठः । २ 'कान्ताधर धरणितलं गच्छ' इति पाठः । ३ 'सारस्वतमिह जय' इति पाठ: १ ४ 'देवस्य विष्वग्वचांसि इति पाठः । by Google Dgilized by