पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्म: १२] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् यद्गान्धर्वकलासु कौशलमनुध्यानं च यद्वैष्णवं यच्छृकारविवेकतत्त्वरचनाकाव्येषु लीलायितम् । तत्सर्वे जयदेवपण्डितकवेः कृष्णकतानात्मनः सानन्दाः परिशोधयन्तु सुधियः श्रीगीतगोविन्दतः ॥ १०॥ श्रीभोजदेवमभवस्य रामादेवीसुत श्रीजयदेवकस्य | पराशरादिप्रियवर्गकण्ठे श्रीगीतगोविन्दकवित्वमस्तु ॥ ११ ॥ । गौरवं भयं प्रेम दाक्षिण्यं पूर्वयोषिति । न मुञ्चत्यन्यरक्तोऽपि ज्ञेयोऽसौ दक्षिणो यथा' ॥ ९ ॥ इदानींबिद्वत्प्रार्थनाव्याजेन आत्मप्रशंसां तनुते --यङ्गान्धवेंति । हे सु- घियः, जयदेवपण्डित कवेस्तत्सर्वे गीतगोविन्दतः । अत्र तसिल् सार्वविभक्तिकत्वा- त्सप्तम्यर्थे उपपत्तिः । गीतगोविन्दे परिशोधयन्तु शुद्धं कुर्वन्तु । अथ गीतगोविन्दा- देव शुद्धं जानन्तु । अत्र 'यद्यपि सङ्ख्यावान्पण्डितः कविः' इति एकार्यपर्यवसायित्वं तथापि 'विकर्तनस्तमसाम्' इत्यादिवत्पण्डिसेष्वपि कविः ऋान्तदशति विशेषणपरं बोद्ध- व्यम् । तदिति किम् । यद्द्वान्धर्वकलासु कौशलम् । गान्धर्वो मार्गदेशीवत् । तस्य कला अङ्गविन्यासवैचक्षण्यादिकाः । तत्र कौशलम् । तत्र गान्धर्वस्य खपदात्मकत्वेन मार्गक त्यात् । अत्र संभवित्वेऽपि केवलदेइयां गन्धर्वशब्दवृत्तिरुपचारवृत्या बोद्धव्येति सुस्थितम् । अनु च यच्च वैष्णवमनुध्यानम्। अनु च चिन्तनम्। अनु च यच कारस्य · विवेकः संभोगविप्रलम्भत्वेन पृथग्भावस्वस्य तत्त्वं सम्यक्त्वेन निरूपणम् । तस्य रचना- विशेषवन्ति यानि काव्यानि तेषु यहीलायितं विलसितमिति यावत् । एतावता गाने, विष्णुभक्तौ शृङ्गाररसनिरूपणे च यदेतस्य काव्यकौशलं तत्सानन्दाः सुधियोऽस्मा देव प्रबन्धात्परिशोधयन्तु । किंभूतस्य कवेः । कृष्णे एकतान एकाग्रचित्त आत्मा स्वरूपं यस्य । तथाविधस्येत्यर्थः । शार्दूलविक्रीडितं वृत्तम् । वैदर्भी रीतिः । आरभटी वृत्तिः ॥ १० ॥ ( अत्र 'श्रीभोजदेवेति' श्लोकस्य टीका नोपलब्धा टीकादर्शपुस्तके तथैवाकरोत् । यथा यथा राधोक्तवती तथैवाकरोदित्यर्थः ॥९॥ यद्गान्धर्वेति । है सुधियः पण्डिताः सन्तो जयदेवकवेः श्रीगीतगोविन्दतस्तत्सर्व परिशोधयन्तु जानन्तु । तत्कि- मिलाइ – यद्गान्धर्वकलासु कौशलं नैपुण्यम् । अथ च वैष्णवं विष्णुसंबन्धि यदनुध्यान- मनुक्षणचिन्तनम् । यश्च शृङ्गारदिवेकतत्त्वं शृङ्गारस्य यो विवेकः संयोग- विप्रलम्मादिरूपेण यद्विवेचनं तस्य मार्ग यथार्थज्ञानम् । यदपि च काव्येषु कविकर्मसु कवित्वनिर्माणरूपेषु लीलायितम् । तत्सर्वमित्यर्थः । कीदृशस्य जयदेवकवेः । कृष्णैकसाना- रमनः कृष्णैकतानस्तत्पर आत्मा मनो यस्य तादृशस्य | ‘एकतानोऽनन्यवृत्तिः ॥१०॥ अधुना पितृमातृनाम निबन्प्रार्थयते सज्जनानिति स्वगुणान्प्रकाशयितुम् --श्रीभो. जदेवेत्यादि ॥ ११ ॥ १ ' तत्त्वमपि यत्काव्येषु' इति पाठः | २ 'राधादेवी' इति पाठः । 1 Digilized by Google