पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[सर्गः १२ १७० गीतगोविन्दकाव्यम् रचय कुक्योः पत्रं चित्रं कुरुष्व कपोलयो- र्घटय जघने कार्थी मुग्धसजा कबरीभरम् | कलय वलयश्रेष्ण पाणौ पदे मेणिनूपुरा- किति निगदितः प्रीतः पीताम्बरोऽपि तथाकरोत् ॥ ९ ॥ स्कर्षप्रदे । पुनः किंलक्षणे । श्रीजयदेववचसिं विषयंभूते । अथवा चशब्दमध्याहृत्य मण्डने जयदेववचति च हृदयं सदयं कुर्विति व्याख्येयम् । अन्यानि पदानि उमय- विशेषणत्वेन योजनीयानि । किंलक्षणे वचसि । सहृदयालंकरणे । जयदेववचसि किंविशिष्टे | उस तस्मिन् । हरिचरणस्मरणमेवामृतं तत्र कृतो यः कलुषज्वरः रोषरूपसंतापः स एव संज्वरः । तस्य खण्डने । हरिचरणस्मरणामृतेन पापखण्डने वचसीत्यर्थः । अथवा हरिचरणस्मरणामृतेन कृतं पापस्य खण्डनं येन वचसा तस्मि॒िस्वादृशे ॥ ८॥ इदानीमष्टपद्युक्तमेव श्लोकेनावतारयति - रचयेति । पी- ताम्बरः श्रीकृष्ण इति राधया निगदितः प्रीतः सन्यथा निगदितं तथा सर्वे- मकरोत् । अपिशब्दसमुञ्चयितं यद्यत्तदभीष्टं तत्तदकरोदित्यपिशब्दार्थः । इतींति किम् । हे यदुनन्दनेत्यनुषङ्गः | कुचयोः पत्रं पत्रवल्ली रचय । अनु च । कपोलयो- मैकरिकादि चित्रं रचय । जघने श्रोग्यां मेखलामारोपय । अनु च । मुग्धसजा मनो- हरमालया कबरीभरं कलय बन्धय । अनु च । वलयश्रेणीं पाणौ कलय । अनु च । पढे मणिमयनूपुरौ कलय । अत्र यथासंख्यमलंकारः | हरिणीवृत्तम् । प्रगल्भा नायिका । तल्लक्षणम् – 'लब्ध्वा पर्ति प्रगल्भा स्यात्समस्तरतकोविदा | आक्रान्तना- यका बाढं विराजद्विभ्रमा यथा' | 'स्वामिन्भङ्गुरयालकं सतिलकं भालं विलासिन्कुरु प्राणेश त्रुटितं पयोधरयुगे हारं पुनर्योजय । इत्युक्त्वा सुरतावसानमुखिता संपूर्ण चन्द्रानना स्पृष्टा तेन तथैव जातपुलका प्राप्ता पुनर्मोहनम् ॥' दक्षिणो नायकः । 'यो दे कवेर्वचसि वाक्ये सदयं दयासहितं यथा स्यादेवं हृदयं कुरु । कीदृशे मण्डने जय- देवस्यालंकारजनके । पुनः कीदृशे | हरिचरणस्मरणमेव यदमृतं तेन निर्मितं कलि- कल्लषज्वरस्य कलियुगसंचितपापरूपज्वरस्य खण्डनं नाशनं येन तादृशे ॥ ८ ॥ रचयेति । हे कृष्ण, कुचयोः पत्रं मकरिकापत्रं रचय । कपोलयोश्चित्रं चित्रकाख्यं विशेषं कुरु । अय जघने कार्थी त्रुटितां क्षुद्रघण्टिकां घटय अर्पय | कबरीभरे चिकुरसमूहे खजं माल्यमलय प्रापय | वलयश्रेणीं कॠणपछि पाणौ हस्ते कलय अर्पय । पदे चरणे नूपुरौ मञ्जीरौ कुरु । इत्यनेन प्रकारेण राधया निगदित उक्तः सन्पीताम्बरः कृष्णोऽपि १' काशीमक सजा ' इति पाठः । २ ' पदे कुरु नूपुरा-' इति पाठः । ३ मला कचित्पुस्तके निम्नलिखितः कोक: समुपलभ्यते- 'पर्यीकृतनागनायकफणा श्रेणीमणीनां गणे सङ्क्रान्तप्रतिबिम्बसंगलनया मित्रद्विमुप्रक्रियाम् । पादाम्भोरुहभारिवारिधिसतामणां दिहशुः शतैः कायम्यूहमिवाचरनुपचितौ भूतो हरिः पातु वः ॥ Digilicad by Google E 1 $ i i I I