पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १२] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् । निज़० ६ मम रुचिरे चिकुरे कुरु मानद मनसिजध्वजचामरे । | रतिगलिते ललिते कुसुमानि शिखण्डिशिखण्डकडामरे सरसघने जघने मम शम्बरदारणवारणकन्दरे । मणिरसनावसनाभरणानि शुभाशय वासय सुन्दरे । निज० ७ श्रीजय देववचसि रुचिरे हृदयं सदयं कुरु मण्डने । हरिचरणस्मरणामृतनिर्मितकलिकलुषज्चरखण्डने | निज० ||८|| अलिकमष्टमीचन्द्रेणोपमीयते, कस्तूरीविशेषकं कलकेनेत्युपमालंकारः । किंभूते मुखे । विश्रमिताः शान्तिमिताः श्रमजलकणा यत्र । एतेन पुनरुद्दीपनविभावाः सूचिता भवन्तीति ॥ ५ ॥ अपिच । मम रुचिर इति । हे मानद मानिनीमानखण्डन, अथ च हे पूजा- प्रद, मम चिकुरे कुसुमानि कुरु । किंभूते चिकुरे । रुचिरे रुचिप्रदे । पुनः किंभूते । 'मनिसज: कामस्तस्य ध्वजः । तत्र चामरवण्यामरस्तस्मिन् । पुनः किंभूते। संभोगेनं लु- लिते विसंकुले | पुनः किंभूते । मनोहरे । पुनः किंभूते । शिखण्डिनो मयूरस्य शिखण्डकं बईसारः | तस्य डामरे भयदे । जेतरीत्यर्थः । रासकच्छन्दः ॥ ६ ॥ अपि च | सरसधन इति । हे शुभाशय शोभनहृदय । अथ शुभ आ सामस्त्येन शयः करो यस्य | मणिरशनादीनां करसाध्यत्वादयमर्थो युक्तः । मम जघने श्रोण्यां मणिमया रसना च वसनानि च आभरणानि च वासय निवेशय । किंविशिष्टे जघने । सरसं च तद्धनं च । निग्धसान्द्रे । पुनः किंविशिष्टे | शम्बरदारण: कामः स वारण व तस्य निवासार्थकन्दर इव कन्दरे । पुनः कीदृशे । सुन्दरे मनोहरे । गजगती- त्यादि अनुकूलो नायकः । प्रगल्भा नायिका | संभोगः शृङ्गारः ॥ ७ ॥ अपि च । श्री- जयवेषेति । हे यदुनन्दन | मण्डन इति । मण्डननिमित्तं हृदयं सदयं कुरु । दयापरो भूत्वा मण्डनानि विधेहीत्यर्थः । किंलक्षणे मण्डने । रुचिरे जयदेवपक्षीसकाशादु- व्यजनवातादिभिस्तनुभूतानां प्रस्वेदबिन्दूना मतिशयिततया हिमकणत्वमाक्षिप्यते । तेन चाळिकस्य चन्द्रत्वरूपणं साङ्गं निर्वहतीति ध्वनितम् । ' ललाटमलिकं गोधिः' इत्यमरः ॥ ५ ॥ ममेति । हे मानद, मादृशप्रपननायिकाभिमानप्रद । मम रुचिरे चिकुरे केशे कुसुमानि कुरु रचय । कीदृशे चिकुरे । ललिते मनोहरे मनसिजस्य / कामस्य ध्वजचामरे पताकाचिभूते चामरे । पुनः कीदृशे | रतिगलिते रतौ सुरतसमये गलिते मुक्तबन्वने । पुनः कीदृशे | शिखण्डिनां मयूराणां शिखण्डस्य पिच्छस्येव डामरे तादृशे ॥ ६ ॥ सरसेवि हे शुभाशय शोभनहृदय मम सुन्दरे जघने मणिमयी या रसना क्षुद्रघण्टिका वसनं वखमाभरणान्यलंकरणानि च वासय परिभेहि । कीदृशे जघने । सरसघने सरसे शृङ्गारसहिते धने निबिडे । पुनः कीदृशे शम्बरं शम्बर- . नामानं दैत्यं दारयतीति शम्बरदारणः कामः । स एव वारणो इस्ती | महाबलत्वात् । तस्य कन्दरे । अपरो ऽपि इस्त्री पर्वतकन्दरायां तिष्ठतीति भावः । 'कुञ्जरो वारणः करी ' इत्यमरः । 'दरी तु कन्दरो वा स्त्री' इति च । वासयेति च 'वस आच्छादने ण्यन्तः ॥ ७ ॥ श्रीजयदेवेति । हे देव कृष्ण, जय सर्वोत्कर्षेण वर्तस्व | अथ जयदेवस्व Digitized by Google