पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[सर्गः १२ नयनकुरङ्गतरङ्गविकासनिरासकरे श्रुतिमण्डले । मनसिजपाशविलासघरे शुभवेश निवेशय कुण्डले | निज० ॥३॥ भ्रमरचयं रचयन्तमुपरि रुचिरं सुचिरं मम संमुखे । जितकमले विमले परिकर्मय नर्मजनकमलकं मुखे । निज० ॥४॥ मृगमदरसवलितं ललितं कुरु तिलकमलिकरजनीकरे । विहितकलङ्ककलं कमलानन विश्रमितश्रमशीकरें । निज० ५ ।। गीतगोविन्दकाव्यम् अपि च । नयनेति । शुभो देशो नेपथ्यविशेषो यस्येति हे शुभवेश, श्रुर्तिमण्डले कुण्डले निवेशय । किंभूते श्रुतिमण्डले । नयनयोस्तरक्ष निरीक्षणविशेषा वृद्धथुपचयास्त एक कुरङ्गविलासास्तेषां निरासं करोतीति । पुनः किंभूते । मनसिजस्य युवमनोबन्धनार्थं पासशोभाभृति । अनेन नेत्रयोः श्रुतिगामिता उता ॥ ३ ॥ अपि च । भ्रमरचय- मिति । हे यदुनन्दनेत्यनुषञ्जनीयम् । मम मुखेऽलकं परिकर्मय अलकानां प्रसाधनं कुरु । किंविशिष्टे मुखे । जितकमले पद्मसदृशे पुनः किंभूते । विमले। पुनः किंभूठे । प्रसादवति । किंभूतमलकम् । नर्मपरिहासषचनजनकम् । अलकअमरपया मुखं पद्म- मित्युत्प्रेक्षितम् । इति उत्प्रेक्षालंकारः ॥ ४ ॥ अपि च । मृगमदेति । हे कमलवदन, मम अलिकरजनीकरे ललाटचन्द्रमसि ललितं मनोहरं तिलकं कुरु। किंभूतं तिलकम् । कस्तूरिकारसेन संभम्। किंभूतम् । विहिता आरोपिता कलङ्कस्य कला येन । एतेन तिरस्कारस्तस्य जनकम् । 'उज्वलो दीप्तिशृङ्गारविशदेषु विकाशिनि ।' इति विश्वः ॥ २ ॥ मगनकुरङ्गेति । हे शुभवेश | शुभः शोभनो वेशोऽलंकरणं यस्य तादृश । मम श्रुति- मण्डले कर्णप्रदेशे कुण्डले विनिवेशय अर्पय । कीदृशे श्रुतिमण्डले नयने एव यो कुरो मृगौ। अतिवेगवस्त्वात्। तयोस्तरङ्गस्य यो विकासः प्रसरणं तस्य निरासकरे निरासकारिणि नयनयोर्दैर्ध्यवियोगकारिणि । अन्यथा कियद्दूरं तयोर्वृद्धि: स्यादित्यर्थः । पुनः कीदृशे श्रुतिमण्डले | मनसिजस्य कामस्य यः पाशोऽसविशेषस्तस्य बिलासघरे तीलाभृति ॥ ३ ॥ अमरचयमितिं । मम संमुखे मुखे रुचिरं मनोहरमलकं चूर्णकुन्तलं परि- कर्मय भूषय | कीदृशमलकम् । नर्मजनकम् । कीदृशे मुखे | निमळे निर्मके | पुनः कीदृशे | जिसकमले जितं तिरस्कृतं निजशोभया कमलं येन सादृशे । कीदृशमलकम् । सुचिरं चिरादुपरि मुखस्योपरि भ्रमरचयं भ्रमरसमूह रचयन्तम् । स्वकान्त्या भ्रमरभ्रमं जन- यन्तमित्यर्थः ॥ ४ ॥ मृगमदेति । हे कमलनयन पद्ममुख, अशिकरजनीकरे अलिकं ललाटमेव रजनीकरश्चन्द्रस्तस्मिन् । तिलकं कुरु । कीदृशं तिलकम् । मृगमदरसवलितं मृगमदरसेन कस्तूरीरसेन वलितं निर्मितम् । पुनः कीदृशं तिलकम् । विहितकलङ्क- कलम् । विदिता कलङ्कस्य लान्छनस्य कला शोभा येन तादृशम् । अत्र कमलाननेति विशेषणेन आननरूपकमलविरोधिन्यलिकरूपरजनीकरे मृगमदतिलकच्छलेन कलकुदान- मुचितमेवेति ध्वनितम् । कीदृशे अलिके । विश्रमितश्रमशीकरे विश्रमितो विश्रामं आपितो यः श्रमस्तजनितः शीकरोऽम्बुकणो यत्र ताइसे इलिके। अत्र विश्वमितेलनेन Google Dgilized by