पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १२] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् रामकरीराजयतितालाभ्यां गीयते ॥प्र० २४॥ | कुरु यदुनन्दन चन्दनशिशिरतरेण करेण पयोधरे ।: मृगमदपत्रकमत्र मनोभवमङ्गलकलशसहोदरे ॥ १॥ निजगाद सा यदुनन्दने क्रीडति हृदयानन्दने ॥ ध्रुवम् ॥ अलिकुलगञ्जनमंञ्जनकं रतिनायकसायकमोचने लघरचुम्बनलम्बितकज्जल उज्ज्वलय प्रिय लोचने । निज० ॥ १६७ सुप्रीतम् । प्रीतिपरे हि नाथे विज्ञप्तिः सिद्धिमेतीति नीतिविदः । अथ सह हासेन वर्तत इति राधाविशेषणमानन्देनेति वचने हेतुः । किंलक्षणा राधा । संभोगावसाने नितान्तमतिशयेन खेदं प्राप्तमहं यस्याः सा तथा । इयं पथ्या आर्या छन्दः ॥ ८ ॥ अत्रान्वयसकर्यार्थ पूर्व ध्रुवपदं व्याक्रियते ॥ निजगादेति । सा राधा वक्ष्य- माणं प्रोवाच । क्व सति यदुनन्दने क्रीडां कुर्वति सति । किंभूते | हृदयानन्दकारिणि । इति ध्रुवः ॥ अथ पदानि | कुरु यद्विति । हे यदुनन्दन, अत्र स्तनकलशे चन्द- नवच्छीतलतरेण करेण कस्तूरिकया पत्रावल्यादि रचय । किंभूते कुचकलशे | कामस्य जमज्जयार्थमङ्गलकलशसदृशे । मङ्गलार्थकलशो हि पयःपूणों भवति सुनीलाम्म्रपल्लवैरुप- चितश्च । एवमत्र पयोधरस्यौचिती। अनेन मयूरपदकं नाम नखरक्षतं व्यज्यते । यथा चाह वात्स्यायन: – 'नान्यत्पटुतरं किंचिद्रागस्यास्ति विवर्द्धनम् । नखदन्तसमुत्थानां कर्मणां गतयो यथा’ ॥ इति ॥१॥ अपि च । अलिकुलेति । हे प्रिय, लोचने पुनर्नूतन- कज्जललेखां कुरु | किंभूतमअनकम् । भ्रमरसमूहस्य तिरस्कारकम् । किंभूते लोचने । कामबाणानां मोचन इति कटाक्षविक्षेपैरुपलक्षिते । पुनः किंभूते। त्वधरचुम्बनेन लम्बितं असृतं कज्जलं यत्र । अनेन रागसंधुक्षणार्थ नयनयोबुम्बनमुक्तम् ॥ २ ॥ कीदृशी राधा निर्गता बाधा पीडा यस्याः सा । पुनः कीदृशी । स्वाधीनमर्तृका | तलक्षणं शृङ्गारतिलके–' यस्या रतिगुणाकृष्टः पतिः पार्श्वे न मुञ्चति । विचित्रविभ्रमासक्ता स्वाधीनपतिका यथा ॥” इति ॥ ८ ॥ तदेव गीतेन कथयति । कुर्वित्यादि --गीस- स्यास्य रामकरीरागो यतितालः | गीतार्थस्तु- सा राधा यदुनन्दने निजगाद उक्तवती । कीदृशे यदुनन्दने । क्रीडति । पुनः कीदृशे । हृदयानन्दजनके । किं निजगादेत्याह— कुर्विति। हे यदुनन्दन कृष्ण, अत्र भृष्टाङ्गरागे मम पयोधरे स्तने करेण मृगमदपत्रकं कस्तूरिकावलिं कुरु । कीदृशेन करेण । चन्दनशिशिरतरेण चन्दनादपि शीतलेन । कीदृशे पयोधरे । मनोभवस्य कामस्य यो मङ्गलकलशो माहव्याय स्थापितः पूर्णकुम्भ- स्तस्य सहोदरे सदृशे ॥ १ ॥ अलिकुलेति । हे प्रिय, लोचने नेत्रे स्वदभराभ्यां यच्चु- म्ननं तेन लम्बितं गलितं यस्कज्जलं तदुज्वलय पुनदीपय | नयनयोः कज्जलं पुनर्मसे- त्यर्थः । कीदृशे लोचने । रतिनायकस्य कामस्य सायकान्वाणान्कटाक्षरूपान्मुञ्चतीति रति- नायकसायकमोचनं तस्मिन् । कीदृशं कज्जलम् । अलिकुलस्य भ्रमर समूहस्य यद्गञ्जनं १ 'गञ्जनसंजनकं' इति पाठः । २ 'कबलमुब्वलय' इति पाठः । Google Dgilized by