पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् [सर्गः १२ ईषन्मीलितदृष्टि मुग्धविलसत्सीत्कारधारावशा- व्यक्ता कुलकेलिकाकुविकसइन्तांशुधौताघरम् | शान्तेस्तब्धपयोधरं भृश परिष्वङ्गाकुरङ्गीदृशो हर्षोत्कर्षविमुक्तिनिःसहतनोर्धन्यो धयत्याननम् ७ ॥ अर्थ सहसा सुत्रीतं सुरतान्ते सा नितान्तखिन्नाङ्गी । राधा जगाद सादरमिदमानन्देन गोविन्दम् ॥ ८ ॥ हारिण्यभूदित्यर्थः । स्रग्धरावृत्तम् । 'अभैर्यानां त्रयेण त्रिमुनियत्तियुता सग्धरा कीर्ति- तेयम् ॥ ६ ॥ इदानीमन्यापदेशेनात्मानं धन्यमिति ध्वनयति ईषन्मीलितेति । हर्षोत्कर्षविमुकनिःसहतनोः हर्षोत्कर्षेण नानारतजनितानन्दातिशयेन विमुकाश्लेषत्वेन निर्व्यापारा निःसहा च कामावेशवशादन्यव्यापारासहा तनुर्यस्याः । एताक्ता सुरतमनु श्रान्ततनोर्मृगलोचनाया धन्य एव मुखं धयति पिबति नाकृतपुण्यकर्मा । कथं यथा स्यात् । भृश परिष्वा ढालिङ्गनाच्छान्तस्तब्धपयोधरं शान्तौ विपुलकी स्तब्धौ कठिनों किंचिदानतौ पयोधरौ यस्मिन्कर्मणि तद्यथा स्यात् एतावता सुर तान्ते नितान्तं कान्तं तन्मुखं दृष्ट्वा पुनरालिङ्ग्याधरपाने स्पृहाभवदित्यर्थः । किंभूत- माननम् । ईषन्मीलितदृष्टि किंचिन्मुकुलिते दृष्टी यत्र किंभूतमाननम् । मुग्धं मनोहरं यथा स्यात्तथा विलसन्त्यो याः सीत्कृतानां धाराः श्रेणयस्तद्वशादव्यक्ता आकुलाब सुरतक्रीडायां या काकवो ध्वनिविकारास्तासु विकसन्तो ये दन्तांशवस्तै तो ऽधरो यत्र तत्तथा । कस्मादृढालिङ्गनवशात् । एतेन वृक्षाधिरूदकमित्यालिङ्गन- मुतम् । तल्लक्षणम् – 'चरणेन चरणमाक्रम्य द्वितीयेनोरुदेशमाक्रमन्ती वेष्टयन्ती च तत्पृष्टास फैकबाहुर्द्वितीयेनासमवनमयन्ती ईषत्प्रवृत्तान्तःश्वसितसीत्कृतकूजिता चु म्बनार्थमघिरोढुमिच्छेदिति वृक्षाधिरूढम् । तच घटितमिति चुम्बनविशेषः । 'ईषत्प्र- त्य निमीलितनयनावच्छादयन्तीति घट्टितं नाम' । एतच तदालिङ्गनतोषेण आत्मनि धन्यत्वमारोप्य खात्मगतार्थचिन्तनपरं पद्यम् । शार्दूलविक्रीडितं वृत्तम् । जातिरलं- कारः । पावाली रीतिः । मागधी गीतिः । भारती वृत्तिः । स्थितलयं गानम् ॥ ७॥ अथा- नन्तरं तयोः रानन्दसंदोहरूपसुरतावसाने राधा गोविन्दमानन्दयतीत्युत्तरकृ. त्यानि प्रति प्रोत्साइयन्ती जगाद -अथ सहसेति । अथ राधा आनन्देन उपल- क्षितं गोविन्दमिदं वक्ष्यमाणं सादर जगाद । किंभूतं गोविन्दम् । सहसा वेगेन द्वयस्य टीका नोपलब्धादर्शपुस्तके ॥ ६ ॥ ७ ॥) अथेति । अथानन्तरं राधा कान्तं • कृष्णं मण्डनवान्छया निजगाद । कीदृशं कान्तम् । रविश्रान्तमपि रतिबिश्नचित्तमपि । १६६ १ 'मुग्धहसितं सीत्कार' इति पाठः । २ श्वासोस्कम्पिपयोधरोपरि परिष्वाद' इति पाठः । ३ शंकरमिश्रकृतरसिकमञ्जरीटीकायामस्या आर्यायाः स्थाने निम्नलिखितः लोको वर्तते- 'अथ निर्गतबाधा सा राधा स्वाधीनभर्तृका निजगाद रतिभान्तं कान्तं मण्डनवाछया ॥' Digiticesd by Google