पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ गीतगोविन्दकाव्यम् [सर्ग: १२ प्रत्यूहः पुलकाङ्कुरेण निबिडाश्लेषे निमेषेण च क्रीडा कूतविलोकिते ऽघरसुधापाने कैथानर्मभिः । आनन्दाधिगमेन मन्मथकलायुद्धेऽपि यस्मिन्नभू- दुतः स तयोर्बभूव सुरतारम्भः प्रियंभावुकः ॥ २ ॥ दोयि संयमितः पयोधरभरेणापीडितः पाणिजै- राविद्धो दशनैः क्षताधरपुटः श्रोणीतटेनाइतः । कारकः ॥ इति मधुरिपुमोदविद्याधरलीला नाम त्रयोविंशः प्रबन्धः ॥ ८ ॥ इदानीं सुरतारम्भं विवर्णयिषुराह - प्रत्यूह इति । तयो राधामाधवयोः स चिरं कातिः सुरतारम्भ उद्भूतः प्रवृद्धः सन् प्रियंभावुको बभूव । स कः । यस्मिन्सुर तारम्भे निबिडालेषे दृढतरालिङ्गने पुलकाङ्कुरेण रोमाञ्चमात्रेणापि प्रत्यूहोऽभूत् । अङ्कुरग्रहणं तन्मात्रमपि आलिङ्गनान्तरायज्ञापनार्थम् आश्लेषारम्भोऽपि सात्विको रोमाञ्चोऽभूदिति युज्यते । अपि च । यस्मिन्क्रीडाकृतविलोकितेऽपि निमिषेण प्रत्यू होऽभूत् । विलोकितं निमेषितमात्रस्याप्यसहमभूत् । अनु च । अङ्गादान्तरसौन्दर्य - दिदृक्षालोलं नेत्रं नैकत्राप्यवयवे धृतिं बधानेति व्यज्यते । अधरसुधापाने कामकथा-. क्रीडनमन्तरायो जातः । अधरपाने प्रियालापो न सोढः । अतिशयेनाधरं पातुमिच्छो रतिप्रियालापः कोऽपि तस्मादप्यधिकरुचिर इति व्यज्यते । अपि च कामकलासु युद्ध इव युद्धे करणात्करणान्तरारम्भे आनन्दाधिगमेनापि अन्तरायो यथा कामजनना- काङ्क्षापि शिथिला भवेदिति वाच्यार्थः । कामोत्पत्तौ संजायमानायामत्यमनस्कत्वाय त त्प्रतिबन्धककारणान्तरमारब्धमिति व्यङ्ग्योऽर्थः । अत एव प्रवृद्धत्वमुचितम् । शार्दू- लविक्रीडितं वृत्तम् । यथा संख्यमलंकारः । संभोगाख्यः शृङ्गारो रसः ॥ जयमङ्गलताळेन 'पचं शृङ्गारनिर्भरम्। गीताः पाटाः खरास्तेना उच्यन्ते यत्र रूपके ॥ देवशाखाभिषे रागे सुरतारम्भनामतः । चन्द्रहासप्रबन्धोऽयं प्रबन्धः प्रीतिकृद्धरेः ॥ इति सुरतारम्भचन्द्र- हासनामा चतुर्विंशः प्रबन्धः ॥ २ ॥ तदेव विवृणोति – दोर्भ्यामिति । यद्यस्मात्का- रणादेतानत्यपि व्यतिकरे कान्तः कृष्णः कामपि वाचामगोचरे वर्तमानो तृप्तिभाप अनुपदं निगदितो मधुरिपोः कृष्णस्य मोद आनन्दो यत्र तादृशम् ॥ ८ ॥ मबूह इति । तयो राधामाधवयोः स लोकोत्तरी ललितारम्भो ललितो मनोहर आरम्भो यस्यैतादृशः शुभारक्रीडाविशेष उद्भूत उद्भटः प्रियंभावुको बभूव प्रियो बभूव सक इत्वस आई - प्रत्यूह इत्यादि । यस्मिँठसितारम्भे निविडाले कर्तव्ये पुलकाङ्कुरेण रोमाशो- झमेन प्रत्यूहो विनोऽभूत् । अथच क्रीडाकूतविलोकिते क्रीडासु यदाकूतपूर्वकमभिप्रा- यपूर्वकं विलोकितं तत्र निमेषेण नेत्रस्पन्दनेम प्रत्यूहोऽभूत् । अथ च अवरसुधापानेऽधरा- मृतपाने कर्तव्ये कथानमैभिः रहःकथाकौतुकैः प्रत्यूहोऽभूत् । अथ च मन्ममयुद्धे. सुरते आनन्दाधिगमेन आनन्दप्राध्या प्रत्यूहोऽभूत् ॥ २ ॥ दोर्म्यामिति -- दोयि बाहुभ्यामर्याद्राभया संयमितो बद्धः । अथ च तथैव पयोधरभरण पीडितः । अथ च १ 'कथाकेलिभि: ' इति पाठः । Google Dgilicabby 1 1