पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १२] रसिकप्रिया –रसमञ्जर्याख्यटीकाद्वयोपेतम् शशिमुखि मुखरय मणिरशनामुणमनुगुणकण्ठनिनादम् । श्रुतियुगले पिकरुतविकले मम शमय चिरादवसादम् ॥क्षण ||६|| मामतिविफलरुषा विकली कृतमवलोकितमधुनेदम् । लेज्जितमिव नयनं तव विरमति सृजसिं वृथा रतिवेदम् ॥ क्षण०७ श्रीजयदेवभणितमिदमनुपदनिगदितमधुरिपुमोदम् । जनयतु रसिकजनेषु मनोरमरतिरसभावविनोदम् ॥ क्षण० ||८|| अत एव च न विद्यन्ते विलासा यस्य ॥ ५ ॥ अपि च । शशिमुखीति । हे शशि- मुखि, मणिरशनागुणं मुखरय वाचालं कुरु । किंभूतं मणिरशनागुणम् । अनुगुण- कण्ठनिनादम् । अनुगुणोऽनुरूपः । अर्थादेव त्वदीयकण्ठस्य निनादों यस्य एव मम श्रुतियुगलें चिरात्त्वदसङ्गमावर्त्तमानमवसादं खेदं शमय । किंभूते श्रुतियुग । तव विरहे पिकरुतेन विकलीकृते । विरहिणो हि पिकरुतं दुःश्रवं भवतीति ॥ ६ ॥ अपि च । मामिति । हे राधे, इदं तव नयनमधुना अवलोकितुम् । अर्थान्मां लजितमिव विरमति | किंभूतं नयनम् । मामभिलक्ष्य विफलम् | विफलरुषा निरर्थक- रोषेण विंकलीकृतम् । अविकलं विकलं कृतमिति विकलीकृतम् । अत एव वृथा रतिवेदं सृजति । अथवा विसृजेति पाठान्तरम् । तत्र वृथा निरर्थकम् । विसृज • मुख ॥ ७ ॥ श्रीजयदेवेति । इदमनुपमो निगदितो मधुरिपोर्मोदो यत्र येन वा । तद्रसिकजनेषु मनोरमो यो रतिरसो रतिरागस्तस्य भावस्तत्ता स्थैर्ये तस्य विनोदं कौतुकं जनयतु । किंभूतमिदम् । श्रीजयदेवमणितम् ॥ पदानां दशके अत्र ताले वर्णवतौ भवेत् । ध्रुवः प्रतिपदं गेयः कविनामाङ्कितात्पदात् । गीत्वालापा- न्यथाशब्दं प्रतिताले ततः परम् । पाटास्तेनाः स्वराचैव रो रस उत्तमः ॥ देवशाखाभिधों रागः प्रबन्धे संप्रदृश्यते । श्रीविद्याघरलीलाख्यः श्रीपतिप्रीति- ।। ५ ।। भशिमुखीति —हे शशिमुखि चन्द्रवदने, मणिरशनागुणं मणियुक्तका श्रीदाम मुखरय सशब्दं कुरु । अनेन इंसळीलाख्यं विपरीतरतं भजस्वेति ध्वनितम् । त क्षणं चोकं प्राकू। कीदृशं रशनागुणम् । अनुगुणं कण्ठनिनादः कण्ठशब्दो यस्य तादृशम् । रशनागुणानुकारिकण्ठशब्दं व कुर्विष्यर्थः । अनेन शब्देन मम श्रुतियुगले श्रोत्रयुग्मे चिरादवसादं चिरकालीनमुपतापं समय नाशय । कीदृशे पिकरतेन कोकिलशब्देन विकले दुःखिते ॥ ६ ॥ मामिति । हे राधे, मामवलोकितुं तब समनं मीलति मुद्रां प्राप्नोति । किमिव । लज्जितमिव । मां कीदृशम् । अतिविफलरुष अतिनिष्फलेन रोषेण विफलीकृतं विफलतां नीतम् । अधुनेदानीं नयनमीलने विरम किरता भव । निष्फलरोषादित्यर्थात् ॥ ७ ॥ श्रीजयदेवेति । इदं श्रीजयंदेवमणितं जयदेवेन कथितं रसिकजनेषु मनोरमरतिरसभावविनोदं रतिः भोगः रसः शृङ्गाररसो भावा: सेन्चारिसालिकादयस्तेषां मनोरमं विनोदं कौतुकं जनयतु । कीदृशं भणितम् । १ 'मीलितलज्जितमिव नयनं तब गिरम विसृज रतिवेदम् इति पाठः । Dgilized by Google