पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १२] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् करकमलेन करोमि चरणमहमागमितासि विदूरम् । क्षणमुपकुरु शयनोपरि मामिव नूपुरमनुगतिशूरम् ॥ क्षण || २ || वदनसुधानिधिगलितममृतमिव रचय वचनमनुकूलम् । विरहमिवापनयामि पयोधररोधकमुरसि दुकूलम् ॥ क्षण० ||३|| ● राधिके, अधुना मामनुसर। किंभूतं माम् । क्षणमनुगतं त्वदर्शनोत्सवं प्राप्तम् । अथवा मामनुसर । किंभूतं माम् । क्षणमधुना त्वत्संभोगोत्सवमदेनानुगतं व्याप्तम् । अत्र केचन क्षणमधुना नारायणमनुगतमनुसरेति पठन्ति । तत्र मामिति प्रकरणागत- मनूद्य नारायणविशेषणत्वेनोपादेयम् । नारासु अप्सु अयनं यस्य इति कामतापो- पशान्त्यै शीतलं मामनुसर । मया सह जलक्रीडां कुर्विति वाक्यार्थः । इति ध्रुवः ॥ अय पदानि । किसलयेत्यादि । हे कामिनि कामाभिकाङ्क्षिणि । किसलयशयनतले चरणनलिननिवेशं कुरु विन्यासं कुरु । किसलयानि हि नलिनविशेषान म्लानि- भागि भवन्तीत्यत्रावयोरनुरूपं रतं भविष्यतीति व्यज्यते । किसलयानि हि पंदप- लवस्पर्द्धानीत्युक्तिलेशेन विवृणोति । इदं किसलयशयनं तव पदपलववैरिपराभव- मनुभवतु । पदपलवावेव वैरिणी ताभ्यां सकाशात्पराभवम् । अथवा इदं किसलय- शयनं तव पदपलववैरिस्पकृत् । अतः पराभवमनुभवतु । किंभूतं शयनम् । सुवेशं सुनेपथ्यम् । अत्र तल्पे पदपलवन्यासेन करणविशेषः सूचितः ॥ १ ॥ अपि च । करकमलेनेति । हे राधे, विदूरं बहुतरं पन्थानमागमितासि । अतः करकमलेन चरणमहं पूजां करोमि। शयनोपरि मां क्षणं नूपुरमिव उपकुरु । यथा नूपुरमुपक- रोषि धारयसि तथा मामप्युपकुरु ममाप्युपकारं कुरु । चरणधारणद्वारेण चारमनु- लक्ष्य शूरं यथा तब चरणं गच्छति तथैव विक्रान्ति करोति। मामपि अनुसरणे शूरं त्वदनुसरणमेव पराक्रमो यस्य । अथवा शयनोपरि वर्त्तमाना त्वं मामुपकुर्विति योजनीयम् ॥ २ ॥ अपि च । घदनेति । हे राधे, अनुकूलं रतिजनकं वचनं रचय नारायणमनुसर। हे कामिनि, किसलयशयनतले चरणकमलविनिवेशं पादपद्मार्पणं कुरु । इदं सुवेशमपि सम्यक्पत्ररचनादिना सुष्ठु अलंकृतमपि किसलयशयनं पराभवमनुभवतु । तब पदपलव एक यो वैरी शत्रुस्तस्मात्पराभवं पराजयमनुभवतु । यद्वा । इदं किसलयशयनं पराभवमनुभवतु । कीदृशम् । तव पदपछववैरि । विरोधीत्यर्थः ॥ १ ॥ करकमले- नेति । अहं करकमलेन निजकराम्बुजेन तव चरणं करोमि संवाइयितुमर्थात् । यद्वा तव चरणमहमित्येकपदम् । तथा च करकमलेन तव चरणयोमेहं पूजां संवाहनादि- रूपां करोमि । कथमित्याइ–त्वं विदूरमतिदूरमागमिता आनीतासि । अर्थान्मया । तथा च दूरागमनजन्यं ते अममपनयामीति भावः । शयनोपरि शय्याया उपरि नूपुर- मुपकुरु | नूपुरस्य परिधानेन महार्थतापादनमेवोपकारः । कीदृशं नूपुरम् । अनुग तिशूरम् । अनुगतौ तवानुसरणे शूरम् । अपरोऽपि योऽनुगतिशूरो भवति स उपक्रियत इत्युचितमेवेति भावः । कमिव । मामिव । यथा तवानुसरणशूरं मामालिङ्गनांदिनोप- करोषि तथा नूपुरमप्युपकुर्वित्यर्थः ॥ २ ॥ बदनेति --हे प्रिये, अनुकूलमुचितं Google Dilized by