पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[सर्गः १२ गीतगोविन्दकाव्यम् द्वादशः सर्गः । सुप्रीतपीताम्बरः । गतवति सखीवृंन्देऽमम्दत्रपाभरनिर्भर - स्मरपरवशाकृतस्फीतस्मितस्त्रपिताघराम् । सरसमनसं दृष्ट्वा राधां मुहुर्नवपल्लव- प्रसवशयने निशिताक्षीमुवाच हरिः मियाम् ॥ १ ॥ विभासरागैकतालाभ्यां गीयते । प्र० ॥ २३ ॥ किसलयशयनतले कुरु कामिनि चरणेनलिनविनिवेशम् । तव पदपल्लववैरिपराभवमिदमनुभवतु सुवेशम् ॥ १॥ क्षणमधुना नारायणमनुगतमनुसैर मां राधिके ।। ध्रुवम् ॥ मनसि शिवमजेयं चिन्तयित्वाप्रमेयं नृपतिमुकुटरत्नं कुम्भकर्णाभिधेयम् । वितनुत इह सम्यग्देशमार्गानुमेयं श्रुतिपुटपरिपेयं गीतगोविन्दगेयम् ॥ इदानीं चिरकालकाहितराधादर्शनोलासिमानसो हरिस्तामाह -गठवतीति । हरिः प्रियां राधामुवाच । किंभूत प्रियाम् । मुहुर्वारंवारं नवपलवानी प्रसवोऽथवा नवपक्ष- वाथ प्रसवाः कुसुमानि च तेषां शयनम् । तस्मिन्दत्तदृष्टिम् । किं कृत्वा । सरसं सरागं मनो यस्या एवंभूतां दृष्ट्वा । पुनः किंभूताम् । अमन्दो यस्त्रपाभरस्तेन निर्भरो यः स्मरः तत्परवशं यदाकूतमाशयस्तदनुविद्धं यस्मिन् (?) । तेन खपितोऽधरो यस्याः सा । क्व सति । सखीसमूहे गतवति सति । स्मरवशेति वक्तव्ये परग्रहणमतिशयेन तदधीनत्वशोतनाय । हरिणीवृत्तम् । अस्मिन्सर्गे स्वाधीनभर्तृका नायिका वर्णनीया । तलक्षणम् -'यस्या रतिगुणाकृष्टः पतिः पार्श्वन मुवति । विचित्रविभ्रमासका सा स्यात्स्वाधीनभर्तृका ॥ १ ॥ तदेव वक्ष्यमाणमाह - किसलयेति । तत्र पूर्व ध्रुवः क्षणमिति । हे 'गतवतीति । हरिः प्रियां राधामुवाच । क सति । सखीवृन्दे सखीसमूहे गतवति सति । कीदृशीम् । अमन्दत्रपाभर निर्भरस्मरपरवशाकूतस्फीतस्मितलपिताधराम् । अमन्दः क्रूरोऽथ त्रपाभरेण लज्जासमूहेन निर्भरोऽतिशयो यः स्मरः कामस्तरपरवशस्त दायत्तो य आकूतोऽभिप्रायस्तेन स्फीतं प्रवृद्धं यत्स्मितं तेन खपितौ भ्यासौधरी यस्यास्वाम् । पुनः कीदृशीम् । सरसमनसं रसोऽनुरागस्त सहितं मनो यस्यास्ताम् । किं कृत्वा । नवपल्लवप्रसवशयने नवकिसकयपुष्पमये शयने शयनीये निक्षिताक्षी निहितनयनां विलोक्य दृष्ट्वा । अत्र शय्याविलोकनेन संभोगेच्छा ध्वन्यते ॥ १ ॥ किसकयेति । गीतस्यास्स विभासराव आदितालः । गीतार्थस्तु । हे राधे, क्षणमधुनानुगतं १ 'चरणकमक' इति पाठः । २ 'सर भो राधिके' इति पाठः । Dilized by Google