पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i; I 1. सर्ग: ११] रसिकप्रिया –रसमअर्याख्यटीकाद्वयोपेतम् सौन्दर्यैकनिधेरनङ्गललनालावण्यलीलापुषो राधाया हृदि पलवले मनसिजक्रीडैकरङ्गस्थले । रम्योरोजसराजखेलनरसित्वादात्मनः रूपापय- न्ध्यातुर्मानसराजहंसनिभतां देयान्मुकुन्दो मुदम् ॥ १२ ॥ इति श्रीगीतगोविन्दे राधिकामिलने सानन्ददामोदरो नाम एकादशः सर्गः ॥ ११ ॥ 1 इति । पाञ्चाली रीतिः । आरमट्टी वृत्तिः । वीरो रसः ॥११॥ सौन्दर्येति । मुकुन्दो मुदं देयात् । अर्थाद्भचेभ्यः । मोचयति क्लेशात्प्राणिन इति मुकुन्दः । किं कुर्वन् । ध्यातुर्नरस्य मानस इव मानसे राजहंससदृशतां कथयन् । कस्मात् । राधाया हृदि पलवले | पलवल इन पल्वले रम्योरोजसरोज खेलनरसित्वात् । रम्यौ मनोहरौ उरोजावेद सरोजे तत्र खेलनं तत्र रसित्वमेकाप्रभावः । तस्मात् । पल्वले किल सरोजसंभवः । तत्र हंसेनैव भाव्यमिति रूपकमलंकारः । किंविशिष्टे हृदि । मनसिजः कामस्तस्य क्रीडार्थमद्वितीयरङ्गभूमौ । किंविशिष्टाया राधायाः । निघीयत इति सौन्दर्यस्याद्वि- तीयो निधिः सौन्दर्यैकनिधिः । पुनः किंभूतायाः । अनङ्गस्य ललना रतिः । तस्या ला वय्यं तल्लीलया जुषतीति तस्या रतिरूपाया इत्यर्थः । शार्दूलविक्रीडितं छन्दः । प्रतिपदं रूपकमलंकारः । तलक्षणम्- 'किचित्साधर्म्यसंपत्तेसुल्यावयवलक्षणम् स्वैर्वि- कल्पैर्विरचितं रूपं रूपकमिष्यते ॥ इति । आशीवालंकारोऽपि ॥ १२ ॥ माधहुईन्तिदन्तावलबलदलनोइण्डदोर्दण्डपिण्डो- हामस्थे मानवामाभिनवनवभवन्त्राजमानोरुकीतिः । व्यायष्ट स्पष्टसृष्टाष्टपदविवरणैः सर्वमेकादशं तं पृथ्वीनाथः प्रथिन्ना जितपृथुमहिमा कुम्भकर्णो महेन्द्रः ॥ इति श्रीयवनी पद्मिनीभानोः श्रीमहामहेन्द्रश्रीकुम्भकर्णस्य कृतौ रसि- कप्रियायां सानन्ददामोदरो नामैकादशः सर्गः ॥ सुभगम् ! आकूतेन तन्मनाख्येन सुमगे मनोहरम् ॥ ९ ॥ ( अत्र 'सानन्दमिति, 'जयश्रीति,' 'सौन्दर्येति,' लोकत्रयस्य टीकानोपलब्धादर्शपुस्तके ॥१०॥११॥१२॥) तर्कान्दोलनकर्कशापि सुमतिर्या हावभावान्विता शृवारादिरसोन्नथांदिकुशला सा शंकरे केवला | कि शम्भोरपरत्र विश्वविजयो वृप्तस्मरद्वेषता देहाधकृतकामिनीप्रणयिता च कापि देशान्तरे ॥ इति श्रीमहामहोपाध्यायश्रीशंकरमिश्रविरचितायां शाकिनाथकारितायां गीतगोविन्दटीकायां रसमञ्जरीसमाख्यायामेकादशः सर्गः ॥ १४ Dgilized by Google >