पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[सर्गः ११ गीतगोविन्दकाव्यम् जयश्री विन्यस्तैर्महित इव मन्दारकुसुमैः स्वयं सिन्दूरेण द्विपरणमुदा मुद्रित इव । भुजापीडक्रीडाहतकुवलयापीडकरिष्णः प्रकीर्णाटबिन्दुर्जयति भुजदण्डो सुरजितः ॥ ११ ॥ F त्वात् । अद्भुतो वाच्योऽप्यम् । यदाह – 'विवक्षितरसे लब्धप्रतिष्ठेतु विधायिनाम् । वाच्यानामङ्गभावं वा प्राप्तानामुक्तिरच्छला ॥” इति । विशेषतस्तु प्रस्तुतपरिपोषकार्य- सौ प्रकृतिरमणीयायां तस्यामधिकतरं सौकुमार्यमाविष्करोतीत्युपरम्यते । अलंकार- सर्वखमतातिशयोफिरलंकारः। संमददाने सानन्दमौचितीमावहति पुरुषः प्रमदायुक्तः । शृङ्गारः ( रसः) । वैदर्भी रीतिः । प्रसादो गुणः ॥१०॥ जयश्रीति । मुरजितो भुज- दण्डो जयति । मुरं दैत्यविशेषं जितवान्मुरजित् । तस्य मुरजितः कृष्णस्य दण्डा- कारो बाहुः सर्वोत्कर्षेण वर्तत इत्यर्थः । सर्वोत्कृष्टत्वेन जगद्वन्द्यत्वमभिव्यक्तिम् । कीदृशो भुजदण्ड: । प्रकीर्णाटबिन्दुः विस्तीर्णा असृजो रुधिरस्य बिन्दनो यत्र स तथा । अत्र हेतुमाह—कीदृशस्य मुरजितः । भुजापीडेति । भुजापीडस्य भुजद्ण्डस्य क्रीडया विलासेन हतो व्यापादितः कुवलयापीडाख्य: करी गजो येम स तस्य तथेति । यद्वा भुजापीडकीडया इतवासी कुवलयापीडनामा करी च तस्येति कर्म- धारयः । संबन्धे षष्ठी । तत्संबन्धिप्रकीर्णरुधिरस्य बिन्दवो यस्मिन्मुजदण्डे स तथेति । क्रीडाशब्देनानायासो व्यज्यते । 'रुधिरेऽसग्लोहितासरचक्षतजशोणितम्' । इत्यमरः । भुजहतहस्तिदधिरबिन्दुभुजसंबन्ध उत्प्रेक्षाबीजमित्युत्प्रेक्षते । कीदृश इव भुजदद: । द्विपरणमुदा द्वाभ्यां नासामुखाभ्यां पिबतीति द्विपो हस्ती कुवल्या- पीड: । तत्सङ्गरसंमदेन स्वयमात्मना सिन्दूरेण मुद्रित इवाङ्कित इव । कुवलयापीड- करिसङ्ग्रामे साधुरयं मे बाहुरिति हर्षवशाच्छ्रीणेन (?) सिन्दूरातो बाहुरिति भावः । रणमुदेति हेत्वर्थे तृतीया । मुद्रित इति तारकादित्वादितच् । पुनरुत्प्रेक्षते | की इव भुजदण्डः । जयश्रीविन्यस्तैर्मन्दारकुसुमैर्महित इव । जयलक्ष्म्या प्रक्षिप्तमन्दार- कुसुमैः पूजित इव । जयसंपदि विन्यस्तैरथाद्देवैरिति वा । समरजयिन उपरि पुष्प- वृष्टिरुचिता । यद्वा जयश्रिया लक्ष्म्या क्षिप्तैर्मन्दारकुसुमैर्महित उत्सवं प्रापितः । पति- जये सति पत्नी उत्सवं करोतीत्युचितम् । कुसुमरक्तिमार्पकं मन्दारपदमौचितीमावति । मह् पूजायामित्यस्य चप्रत्यये महित इति रूपम् । महं प्रापित इत्यर्थे तारकादित्वादित- प्रत्यय इति वा । शिखरिणी छन्दः । तल्लक्षणं सङ्गीतराजे– 'गुहास्यैर्विश्रान्ता यमन- सभलागः शिखरिणी ।' उत्प्रेक्षालंकारः । तलक्षणं काव्यप्रकाशे– 'संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्' । इति । अनुप्रासः शब्दालंकारः। तल्लक्षणम्-'वर्णेसाम्यमनुप्रासः ' स्यात्तथा बहियांते सति कुक्षाद्बहिर्गते सति । पुनः कथं यथा स्यात् । विहितस्मितं विधि- तेषद्धासं यथा स्यात् । कीदृश्यास्तस्याः । प्रियास्यं कृष्णास्यं मुखं पश्यन्त्याः कीदृशं मुखम् ।' स्मरसरसं स्मरेण कामेन सरसं शृङ्गाररससहितम् । पुनः कीदृशम् । आकूत- acticed by Google Dilized

!