पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् भजन्त्या स्वल्पान्तं कृतकपटकण्डतिपिहित- स्मितं याते गेहाद्धहिरवहितालीपरिजने । प्रियास्यं पश्यन्त्याः स्मरपरंवशाक्तसुभगं १५५ सलज्जा लज्जापि व्यगमदिव दूरं मृगदृशः ॥ ९ ॥ सानन्दं नन्दसूनुर्दिशतु मितिपरं संमदं मन्दमन्दं राधामाधाय वाव्होविचरमनु दृढं पीडयन्मीतियोगात् । तुनौ तस्या उरोजावतनु वैरतनोनिर्गतौ मा स्म भूतां पृष्ठं निर्भिद्य तस्माहिरिति वलितग्रीवमालोकयन्वः ॥१०॥ अत्र सात्विक भावान्तरित उपमालंकारः । शिखरिणी वृत्तम् ॥ ८ ॥ इदानीं मीलि- तायां तस्यां सखीकृत्यमाह - भजन्त्या इति । मृगदृशो राधाया लज्जापि अति- दूरं व्यगमत् । किंभूता लज्जा । लज्जासहिता । किंभूतायाः । प्रियास्यं पश्य- न्त्याः । किंभूतं प्रियास्यम् । स्मरपरवशं यदाकूतमभिप्रायस्तेन सुभगं सुन्दरम् । पुनः किंभूतायाः । तल्पान्तं तल्पसमीपं व्रजन्त्या आश्रयन्त्याः १ व सति । अव- हितालीपरिजनेऽवहितः सावधानो यः सखीलक्षण: परिजनस्तस्मिन्गेहात्रिकुआद्व- हिर्याते सति । कथं यथा स्यात्तथा । कृता या कपटकण्डूतिस्तया पिहितमाच्छा- दितं स्मितं यथा स्यात्तथा । शिखरिणीवृत्तम् । अव्यक्त्यो भावो रसवदलंकारता ॥ ९ ॥ सानन्दमिति | नन्दसूनुः श्रीगोपालो वो युष्मभ्यममितपरममेयं संमदं दिशतु । कथं यथा स्यात् । सानन्दं यथा स्यात्तथा । किं कुर्वन् । बाव्होर्विवरमनु राधां मन्दं मन्दमाधाय । मन्दं मन्दमिति मैनां करस्पर्शोऽपि व्याकुलीकुर्यादिति तस्याः शिरीष- पुष्पाधिकसौकुमार्य व्यज्यते । प्रीतियोगादृढं पीडयन्नालिङ्गयन् । दृढं पीडयन्नित्य- त्रानुरागातिशयो व्यज्यते । तेन च तद्गतं विषयत्वं व्यज्यते । पुनः किं कुर्वन् । इति वलितग्रीवं यथा स्यात्तथा आलोकयन् । इतीति किम् । तस्या वरतनोरतनु शीघ्रं यथा स्यात्तथा तुमौ उरोजी पृष्ठं निर्भिय तस्माद्बहिर्निर्गती मा स्म भूताम् । अनेनो- रोजयोः काठिन्यं तीक्ष्णत्वं व्यङ्ग्यम् । अथवा वरतनोरिति एकपदत्वेन अतनोः कामस्य वरा उत्कृष्टा तनुरिति वेति । अनयैव कामो विश्वजयाय मूर्तिमानित्यर्थः । अत्राद्भुतो रसः । राधामाधायेत्यादिशृङ्गारः । न चानयोरन्योन्यविरोधः । अन्यपर इत्यादि कोकटीकटीका नोपलब्धादर्शपुस्तके ॥ ८ ॥ ) भजन्त्या इति । तस्मिन्काले वल्पान्तं शय्यैकदेशं भजन्त्या आश्रयन्त्या मृगशो हरिणनयनाया राधाया लजापि सल- जेव सनीडेव भूत्वा दूरमतिशयेन व्यगमद्विगता क सति । अवहितालीपरिजने अवहितः कृतावधानो य आलीपरिजनः सखीपरिजनस्तस्मिन् । कृतकपटकण्डूति यथा स्यात्तथा । कृता कपटेन म्याजेन कण्डूतिः कर्णादिकण्डूयनं यत्र । एवं यथा १ ' विहित ' इति पाठः । २ ' स्मरसरसमाकूत' इति पाठः | ३ 'तनुचलतनो:' इति पाठः । Dgilized by Google