पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् [सर्गः ११ श्रीजयदेवभणितविभवद्विगुणीकृतभूषणभारम् । प्रणमत हृदि विनिधाय हरिं सुचिरं सुकृतोदयसारम् ।। हरि० ॥ ८॥ अतिक्रम्यापाङ्गं श्रवणपथपर्यन्तगमन- प्रयासेनेवाक्ष्णोरमलतरतारं गमितयोः । इदानीं राधायाः प्रियतमसमोयातसमये पपात खेदाम्बुमसर इव हर्षाश्रुनिकरः ॥ ८ ॥ । अपि च । श्रीजयदेवेति । हे जनाः सुचिरं हरिं हृदि विनिधाय प्रणमत । किंभूतं हरिम् । सुकृतोदये सारम् । पुनः किंभूतम् । श्रीजयदेवभणितो यो विभवः सामर्थ्य तेन द्विगुणीकृतां भूषणभां शोभां ऋच्छतीति । अथवा द्विगुणीकृतां भूषणभ रातीति । एतत्कृत्वा उत्तेष्टदो भवतीति । अथवा श्रीजयदेवभणितेन विभ- वन्विभुर्भवन्द्विगुणीकृतो भूषणानां भारः समूहो येन | जयदेवभणितं श्रुत्वा भूष- पानामनादरोऽभूदित्यर्थः ॥ क्रमेण नहकेदारश्रीरागस्थानगौडका: । घोरणीमालवीयश्च वराटी मेघरागकः ॥ मालवश्रीदेवशाखो गौण्डकृचाथ भैरवी । धन्नासिका वसन्तश्च गुर्जरी च महारकः ॥ ललितः सप्तदशमो रागास्तावन्ति च क्रमात् । पदानि तेषु तालाः स्युरितस्तन्नाम कीर्यते ॥ आद्यत्रिसप्तदशमद्वादशे द्रुतमण्डकाः । द्वितीये नवमे चैकादशे चैय त्रयोदशे ॥ पदे पश्चदशे सप्तदशे रूपक ईरितः । चतुर्थे प्रति तालव्यां द्रुतालः पञ्चमे स्मृतः । त्रिपुटः षष्ठाष्टमयोः स्याद्भुतप्रतिमण्ठकः । चतुर्दशे षोडशे च भद्रः स्युः प्रतितालकम् । मध्यमादौ पुनर्मुक्तिः शृङ्गार: साभिलाषयोः । स्त्रीपुंसयोरुत्तमस्य नायकस्योपवर्णनम् । कौशिक रीतिमाश्रित्य पदानां खखनामता । छन्दः स्वेच्छा- विरचितं रूपके यत्र दृश्यते । सरागश्रेणिनामायं प्रीतिकृत्कमलापतेः ॥ इति सानन्द- गोविन्दरागश्रेणिकुसुमाभरणनामा द्वाविंशतितमः प्रबन्धः ॥ ८ ॥ इदानीं राधाया अपि सात्विकभावोत्पत्तिं दर्शयति-अतिक्रम्येति । इदानीं राषाया अक्ष्णो- हेर्षाश्रुनिकरः प्रपात क। प्रियतमसमायातसमये प्रियतमस्य समायातं समागम- स्वस्य समये काले । क इव । अपाङ्गं नेत्रप्रान्तमतिक्रम्य श्रवणपथपर्यन्तगमनप्रयासेनेव । स्वेदाम्बुपुर इव । किंभूतयोर्नेत्रयोः प्रियदर्शनाकाङ्क्षया अतिशयेन चञ्चलत्वं प्रापितयोः श्रीजयदेवेति । हे जनाः, हरिं प्रणमत । किं कृत्वा । सुचिरं बहुकारूं व्याप्य हृदि चित्ते विनिधाय । कीदृशम् । सुक्कतोदयस्य पुण्योदयस्य सारं सारभूतम् । यद्वा सुकृतोदय एव सारो धनं यस्मात्तम् । पुनः कीदृशम् श्रीजयदेवस्य भणितविभवे वाग्विभवे द्विगुणीकृतभूषणभारोऽलंकारसमूहो येन तुम् । जयदेवसरस्वती स्वयमेवोत्प्रेक्षालङ्कार- वती । भगवद्गुणैस्तु वर्णनीयैः सुतरामसंकृतेति भावः ॥ ८ ॥ ( अत्र 'अतिक्रम्य' १ 'पतितयोः' इति पाठः । २ 'समालोकसमये' इति पाठः । Dgilized by Google १५४ E

a 7 >