पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् शशिकिरणच्छुरितोदरजलघरसुन्दरसकुसुमकेशम् । तिमिरोदितविधुमण्डलनिर्मलमलयजतिलकनिवेशम् ।। हरि० ॥६॥ विपुलपुलकभरदन्दुरितं रतिकेलिकलाभिरधीरम् । मणिगणकिरणसमूहसमुज्ज्वलभूषणसुभगशरीरम् ॥ हरि० ॥७॥ तान्तः सूचितः । तदेव चिह्नयति । स्मितकान्त्या रुचिरः समुज्ज्वलितो योऽधरपलव- - स्तेन कृतो रतेभः संभोगतृष्णा येन । रतान्ते किल ताम्बूलादिरागह्रासादिना अधर उज्ज्वलो भवतीति कृतरतिलोभमिति रतिविरतावपि पुना रताय सस्पृहत्वम् । एतदेव शृङ्गारसर्वस्वं यद्रतिषिरतावपि न जुगुप्सेति ॥ ५ ॥ अपि च । शशि. किरणेति । किंभूतं हरिम् । शशिकिरणैः कर्बुरितोदरजलधरवत्सुन्दरा: सकुसुमाः केशा यस्य । पुनः किंभूतम् । तिमिरे ऽन्धकार उदितं यद्विषुमण्डलं तद्वन्निर्मलो यो मलयजतिलकस्तस्य निवेशो यत्र | आभ्यां विशेषणाभ्यां शशिकिरिणमिलिताभ्र- शोभया अनु च सतिमिरनवोदितचन्द्रशोमया च सुरताशे लस्तधमिलत्वं स्वेदाम्बु- पूरैः किचिन्मृष्टविशेषकत्वं मम भविष्यतीति मानसः प्रोत्साहः सूचितः ॥ ६ ॥ अपि च । विपुलेति । किंभूतं हरिम् । विपुलपुलकभरैर्दन्दुरितं रोमावितम् । अपि च उष्तलक्षणाभी रतिकेलिकलाभिरुपलक्षितम् । अत एव तदर्थमधीरम् । अपि च किंभूतम् । मणिगणकिरणसमूहसमुज्ज्वलानि यानि भूषणानि तेन वा समुज्ज्वलानि तैः सुभगं शरीरं यस्य । एतेन भविष्यत्सुरवान्वे भूषणपरिग्रहो बोयते । 'सुचिर' इत्यादौ अभिसारिका प्रगल्भा नायिका | 'हारावली' इत्यादि आस- गोन्तं मध्या नायिका ॥ तलक्षणं- 'तुल्यलजासरा मध्या मोहान्तसुरतक्षमा ॥ ७ ॥ नामणिखचितवन सूर्योपमा बोच्या अभूतोपमा चेयम् । 'विकर्तनार्कमार्त्तण्डमि- हिरायणपूषणा: ।' इत्यमरः । पुनः कीदृशम् । स्मितस्य ईषद्धासस्य या रुचिः कान्तिस्तया रुचिरो मनोहर: समुल्लसितो राधाधरपानोत्कण्ठया ईषत्कम्पितो योऽध- रपलवस्तेन कृतो राधारतिलोभः सुरतेच्छा येन तम् ॥ ५ ॥ पुनः कीदृशम् । शक्षि किरणेति । शशिकिरणैश्चन्द्रकिरणैश्छुरितं संबद्धमुदरमभ्यन्तरं यस्य तादृशो यो जलभरो मेषस्वद्वत्सुन्दराः सुकुमाराः । कुसुमं पुष्पम् । तत्सहिताः केशा यस्य तम् । अत्र केशानां श्यामतया जलधरसाम्यम् । तत्र स्थितकुसुमानां मेघान्तरितचन्द्रकिरण- साम्यं बोध्यम् । पुनः कीदृशम् । तिमिरेऽन्धकारे उदितं प्रकटीभूतं यचन्द्रबिम्नं तद्- निर्मलम मलयजतिलकस्य निवेशो विन्यासो यत्र तादृशम् । अत्र कृष्णस्य गाढा- न्धकारसाम्यं ललाटस्थमण्डलाकृतितिलकस्य पूर्णचन्द्रनिम्नस्थितिकाले तिमिरसाम्य- स्यासंभवादभूतोपमा श्रेया ॥ ६ ॥ पुनः कीदृशम् । विपुछेति । विपुलो यः पुल- कमरो रोमावातिशयस्तेन वन्तुरितं व्याप्तम् । पुनः कीदृशम् । रतिकेलिकलाभि- श्रुम्बनादिविशेषचातुरीमिरधीरं चषकम् । पुनः कीदृशम् । मणिगणानां मणिसमूहानां किरणसमूहेन समुज्ज्वलानि यानि भूषणानि मुकुटामजीरादीनि तैः सुभगं शरीरं यस्य तम् । 'निम्मोन्नवतया व्याप्तं दन्तुरं कथ्यते बुधैः ।" इति धरणिः ॥ ७ ॥ Dgilized by by Google