पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[सर्गः ११ तरलगञ्चलचलनमनोहरवदनजनितरतिरागम् । स्फुटकमलोदरखेलितख अनयुगमिव शरदि तडागम् ॥ हरि० ॥ ४॥ वदनकमलपरिशीलनमिलितमिहिरसमकुण्डलशोभम् मितरुचिरुचिरस मुल्लसिताघरपल्लवकृतरतिलोभम् || हरि० ॥ ५ ॥ । वलयितं मूलं यस्य । अनेन गौरायास्तव कृष्णेन लतावेष्टितालिङ्गनविशेषे काव्य- भिख्या भविष्यतीति प्रोत्साहनम् । तल्लक्षणं यथा- 'प्रियमनुष्कृतवल्लीविभ्रमा वेष्ट- यन्ती ममिव सरलागी मन्दसीत्कारदीर्घम् । वदनमुदितखेलाकन्दमाचुम्बनायें नमयति विनताङ्गी यकृतावेष्टितं तत् ॥ ३ ॥ अपि च । तरलेति । किंभूतं हरिम् । तरलहगञ्चलवलनेन मनोहरं यवदनं तेन जनितो रतिरागो येन । अनेन कान्ता दृष्टिरुका । यथा -- 'आपिबन्तीव दृश्यं या सा विकाशातिनिर्मला । स- भ्रूक्षेपकटाक्षा च कान्ता मन्मथवर्द्धनी कमिव । तडागमिव । किंभूतं तडागम् । शरदि स्फुटे विकसिते कमलोदरे खेलितं खञ्जनयुगं यत्र । शरत्काले खञ्जनवर्णनमुचि तमेव | पद्मेऽपि वजनं मिलत्येव । तदुकम् – 'अब्जेषु गोषु गजवाजिमहोरगेषु राज्य- प्रदः कुशलदः शुचिशालेषु' । अत्र कमलोदरग्रहणेन पद्मासनं नाम रतिविशेषः सूचितः । यथा – 'जङ्गायुगलस्य विपर्ययतः पद्मासनमुकमिदं युवतेः ॥ ४ ॥ अपि च । वद्नेति । किंलक्षणं हरिम् । वदनकर्तृकपरिशील्नेन मिलितो यो मिहिर- स्तेन समे ये कुण्डले ताभ्यां शोभत इति । अनेन शारीरकसूर्यसमाकर्षणसद्भावर १५२ गीतगोविन्दकाव्यम् ज्ञातं गौरपीतं दुकूलं पट्टवस्त्रं येन तम् । किमिव । नीलनलिनमिव श्यामकमलमिव । कीदृशं नीकनलिनम् । पीतो यः परागः पुष्परेणुस्तस्य पटलं समूहस्तस्य यो मरोऽति- शयस्तेन वलितं वेष्टितं मूलं यस्य तादृशम् । अत्र कृष्णस्य लिग्धश्यामतया नीलोत्प- लसाम्यम् । पीतपट्टाम्बरस्य च मूललझपीतपरागसाम्यम् । 'अथ कलेवरम् । गात्रं वपुः संहननम् इत्यमरः ॥ ३ ॥ पुनः कीदृशम् । तरकेति तरलो दृगश्चल: कटाक्षस्तस्य चलनेन मनोहरं सुन्दरं यद्ददनं तेन जनित उत्पादितो रतिरागो राधा • सुरतेच्छा येन तादृशम् । कमिव । शरदि शरत्काले स्फुटकमलोदरे विकसित पथगर्ने खेलितं क्रीडितं खअनयुगं खञ्जरीट्युगुलं यत्र तादृशं तडागमिव । अत्र कृष्णस्य राधादर्शनासंक्षुमितत्वेन शरत्कालीनतडागसाम्यम् । स्मेरमुखं मन्दहास्यं च विकसित- कमलसाभ्यम् । तारका: श्यामिकोपेतस्वेन परितः शुभ्रत्वेनातिचश्चलत्लेन तन्नेत्रयोः खञ्जनसाम्यम् । शरत्काले जलाशयस्य कमलगर्ने खेलखञ्जनो दृष्टः सन्द्रष्टुच्छितं प्रयच्छति । एवं चलदपावत्कृष्णदर्शनं राधाया वाछित केलखं दास्यतीति शरत्का- लीनकमलमध्यस्य खञ्जनोपमानेन ध्वनितम् । तदुक्तं बराहे- 'हेमसमीपसिताम्बरकमलो- त्पलपूजितोपलब्धेषु । दधिपात्रधान्यकूटे दृष्टोऽभीष्टानि चेष्टते बिहगः' इति । 'खञ्जरी- इत्यमरः । 'तडागस्तु जलाधारः' इति विश्वः ॥ ४ ॥ पुनः कृष्णवदन कमलस्य मुखपद्मस्य परिशीलनाथ मिळितौ यो मिहिरौ सूर्यो ताभ्यां समे ये कुण्डले ताभ्यां शोमा कान्तिर्यस्य तम् । अत्र कुण्डलयोन- वस्तु खजन: ' कीदृशम् । चदमेति Dgilicad by Google