पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् यमुनाजलपूरम् ॥ हरि० २॥ हारममलतरतारमुरसि दधतं परिरभ्य विदूरम् । स्फुटतरफेनकदम्बकरम्बितमिव श्यामलमृदुलकलेवरमण्डलमधिगतगौरदुकुलम् | नीलनलिनमिव पीतपरागपटलभरवलयितमूलम् ॥ हरि० ॥ ३ ॥ पुनः किंभूतम् । अनमनिवासं कामाश्रयम् । इति ध्रुनः ॥ अथ पदानि । किंभूतं हरिम् । राधावदनविलोकनेन विकसिता उल्लासिता विविधा विकाराणां सात्विक भावानां विभा यत्र । एतेन राधामुखदर्शनादकममेव स्तम्भादयः प्रादुर्भूता इत्यर्थ: । कमिव । जलनिधिमिव । किंभूतं जलनिधिम् । विधुमण्डलदर्शनेन तरलता ललिता मनोहरास्तरङ्गा यत्र । अत्र मण्डलग्रहणं समुद्रवृद्धिहेतुत्वं ज्ञापयति ॥ १ ॥ अपि च । हारमिति । किंभूतं हरिम् । उरसि हारं दधतम् । किंभूतं हारम् । अमलतरतां ऋच्छतीति अमलतरतारम् । अथवा अमलतरा: निर्दोषास्तारा निर्मल- मौतिकानि यत्र । किं कृत्वा विदूरं दीर्घे विलम्ब्य विलम्बं कृत्वा । कमिव । यमुना- जले पूरमिव । किंभूतं । स्फुटतरा ये फेनास्तेन मिश्रितम् । अनेन स्वेदाख्य- सात्विकभावोत्पत्तिर्दर्शिता । अनु च हारदर्शनं च तस्य श्यामव्यूढोरसि गौरी त्वं स्फु- रन्ती दीप्तिमेष्यसीति प्रोत्साहनम् । पुरुषायितरतविशेषच | फेनकदम्बेन सुरतश्रमज- निता उदबिन्दवश्च दर्शिताः | यमुनाजलपूरोपमानेन समद्रुतिश्च ॥ २ ॥ अपि च । श्यामलेति । किंभूतं हरिम् । श्यामलं मृदुलं कलेवरमण्डलं यस्य । पुनः किंभूतम् । अधिगते गौरे ढुकूले येन । किमिव । नीलनलिनमिव । पीतं यत्परागपटलं तस्य भरस्तेन १५१ वीक्षणेन विकसिताः प्रकटिता विविधा नानाविधा विकारा जृम्भणापाक्षेपणकरविमर्श- दिरूपास्त एव विभा विशिष्टोर्मयो येन तम् । कमिन । जलनिधिमिव कीदृशं जलनिधिम् । विधुमण्डलस्य चन्द्रमण्डलस्य दर्शनेन तरलताश्चश्वलीकृतास्तुका अत्यु वास्तरङ्गा ऊर्मयो यस्य तादृशम् । अत्रागाध शृङ्गाररसाश्रयत्वेन कृष्णस्य जलनिधि- साम्यम् । राधामुखस्य चाल्हादकारित्वादिना चन्द्रसाम्यम् । जृम्भणादिरूपाकृविकार- स्योत्तरोत्पन्नतया तरङ्गस्य साम्यम् । 'भङ्गस्वरनेतु भेद भङ्गो जयविपर्यये । इति विश्वः ॥ १ ॥ विविधविकारानेवाह - हारमिति । कीदृशं कृष्णम् । विदूरमतिशयेन परिरभ्यालिङ्ग उरसि वक्षसि हारं दवतं बिभ्राणम् । कीदृशम् । अमलतरोऽतिशयेन विमलतरस्तारः शुद्धमौक्तिकं यत्र तादृशम् । कमिन स्फुटतरः प्रकटतरो यः फेनकदम्बः फेनसमूहस्तेन करम्वितं मिश्रितं यमुनाजरूपूरमिव कालिन्दीप्रवाहमिम । अत्र कृष्ण- शरीरस्य श्यामस्निग्धतया यमुनाप्रवाइसाम्यम् । हारस्य चातिशुभ्रतया फेनसमूह- सायं. बोध्यम् । अत्र हारालिङ्गनेन स्वाभिलाष प्रकटनान्मोइयिताख्यो भावो वर्णितः । सदुक्तं रसार्णवसुधाकरे - 'स्वाभिलाषप्रकटनं मोहयिताख्यम् ।' इति । 'मिश्रितं तु करम्बि- तम्' इति धरणिः | 'तारो मुक्तादिसंशुद्धौ तरणे शुद्धमौक्तिके।" इति विश्वः । 'पूरो जक- प्रवाह: स्यात् इति च ॥ २ ॥ पुनः कीदृशम् । श्यामलेति । श्यामलं नीलं मृदुलं कोमलं कलेवरमण्डलं यस्य तादृशम् । पुनः कीदृशम् । अभिगतमधिकं परिभेयत्वेन Digitized by Google