पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् [सर्गः ११ सा ससाध्वससानन्दं गोविन्दे लोललोचना । सिञ्जानमञ्जुमञ्जीरं प्रविवेशाभिवेशनम् ॥ ७ ॥ वराडीरागयतितालाभ्यां गीयते । प्र० २२ ।। . राधावदनविलोकनविकसितविविधविकारविभङ्गम् । जलनिधिमिव विधुमण्डलदर्शनतरलिततुङ्गतरङ्गम् ॥ १ ॥ हरिमेकरसं चिरमभिलषितविलासम् । सा ददर्श गुरुहर्षवशंवदवदनमनङ्गनिवसम् ॥ ध्रुवम् ॥ १५० आदरो न कर्तव्य इति । अत एव दास इव । उपसेवितं तव पदाम्भोजं येन तस्मिन् । शार्दूलविक्रीडितम् । रूपकोत्प्रेक्षेऽलंकृती ॥ ॥ इदानीं त्रपानाशकृदु- चितं कर्माह सेति । सा राधा अभिवेशनं रतायोपकल्पितकेलिगृहं प्रवि- वेश । कथं यथा स्यात्तथा । सिआनौ सशब्दौ मञ्जुमञ्जीरौ यत्र तद्यथा स्यात् । किं- भूता सा । ससाध्वसं च सानन्दं च ससाध्वससानन्दं यथा स्यात्तथा । गोविन्दे लोले सहृष्णे लोचने च यस्याः सा | साध्वसेन चले । आनन्देन साभिलाषे । अत्र ससाध्वसानन्दमिति एकेनैव सहशब्देन कृते प्रत्येकमुपादानं चलसवृष्णयोः पृथग्यो- गार्थम् । अनुष्टुप्पथ्यावृत्तम् ॥ ७ ॥ आर्योकमेव (?) विवृणोति - राधावनेति । तत्र पूर्व ध्रुवपदम् । हरिमेकरसमिति । सा राधा हरिं वदति स्म । भोकृ- त्वेन हरिस्वरूपेण संवादं प्राप्नोति स्म । किंभूतं हरिम् । एकरसमेक एव राधाविषये रसो रागो यस्य । पुनः किंभूतम् । चिरमभिलषितो राधासंबन्धी विलासो येन । पुनः किंभूतम् । गुरुर्यो राधाया आगमननिमित्तो हर्षस्तस्य वशंवदं वशं वदनं यस्य । लवो शस्तेन क्रीते । 'संकटं ना तु संबाधः' इत्यमरः । 'कवलेशकणाणवः' इत्य- मरः ॥ ६ ॥ सा ससाध्यसेति । सा राषा निकेतनं लीलागृहं प्रविषेश प्रविष्टा । किं कुर्वती । मञ्जु मनोहरो यो मञ्जीरो नूपुरस्तं सिञ्जाना शब्दं कुर्वती । कथं यथा स्यात् । ससाध्वसं साध्वससहित सानन्दमानन्दसहितं च यथा स्यादित्यर्थः । कीदृशी सा । गोविन्दे लोले चाले लोचने यस्याः सा ॥ १ ॥ राधेति । गीतस्यास्य वराडी- रागो रूपकतांल: । गीतार्थस्तु – सा राधा हरिं कृष्णं ददर्श दृष्टवती । कीदृशम् । एकरसं एको मुख्यः शृङ्गाराख्यो रसो यस्य तम् । यद्वा एकस्तुल्यो रसो यस्य सम् । राधाया यादृशः शृङ्गाररसः कृष्णस्यापि तादृश एवेति भावः । पुनः कीदृशम् । चिरं बड्डकालं व्याप्याभिलषितो वान्छितो विलासः केलियेन तम् । पुनः कीदृशम् । गुरु महान्यो हर्ष आनन्दस्तस्य यशंवदमायत्तं वदनं यस्य तम् । पुनः कीदृशं हरिम् । अङ्गविकारम् । कचिदनङ्गविकास इति पाठः । तदानशस्य कामस्य विकासः स्फुटता यत्र तम् । राषेति । पुनः कीदृशं हरिम् । राधाया बदनं मुखं तस्य विलोकनेन १ 'प्रविवेश निकेतनम् ' इति पाठः । २ 'मतविकारम्' 'मनङ्गविकासम्' इति पाठौ। Dilized by „Google