पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् विहितपद्मावतीसुखसमाजे । कुरु मुरारे मङ्गलशतानि । भणति जयदेवकविराजराजे | प्रविश० ॥ ८ ॥ त्वां चित्तेन चिरं वहनयमतिश्रान्तो भृशं तापितः ! कन्दर्पेण च पातुमिच्छति सुधासंबाधबिम्बाधरम् । अस्याङ्कं तदलंकुरु क्षणमिह भ्रूक्षेपलक्ष्मीलव- क्रीते दास इवोपसेवितपदाम्भोजे कुतः संभ्रमः ॥ ६ ॥ मुदितं यन्मनुपकुलं तेन कलितो रावो गुआरवो यत्र ॥ ७ ॥ अपि च । विहि- तेति । इदानीमष्टपदीं परमेश्वरे समर्पयन्नाह - हे मुरारे, जयदेवकविराजे मङ्गलश- तानि कुरु । किंभूते । विहितं कृतं पद्मावत्या लक्ष्म्याः सुखं सुखरूपं समाजं स्थाने प्रासादो येन | तिन्दुबिल्वे जयदेवकारितो महालक्ष्म्याः प्रासादोऽस्तीति प्रसिद्धिः । लक्ष्मीभक्या हरिस्तुष्यतीति ॥ ८ ॥ त्रपानिरसनायाह – त्वामिति इदानीं । | हे राधे, अयं श्रीकृष्णस्तव सुधासंबाधं सुधायाः संकटं बिम्बाधरं पातुमिच्छति १ किं- भूतोऽयम् । त्वामेवंविधां दुर्वहां चित्तेन वहन्नपि श्रान्तः श्रमं प्राप्त अत एव भृशं तापितः। यतः श्रान्तस्तप्तश्च भवति । स तदुपशान्त्यै सुधादिपानं कर्तुमिच्छति । तत्तस्मादस्य मुरारेर क्षणमलंकुरु । कथं । मयास्य तादृशस्य महानुभावस्यैत- तकर्तुं युज्यत इति वदसि चेत्याशङ्कयाह – इद्द तावत्संभ्रम आदरः कुतः किं- भूते इह । भ्रूक्षेप एव यो लक्ष्मीलवस्तेन क्रीते । एतावता मूल्येन गृहीते । ननमिवोशिद्रमरविन्दमभूदिति । सा प्रसिद्धविपर्यासाद्विपर्यासोपमेष्यते ॥” इति । 'पकदादिमनीजाभं माणिक्यं शिखरं विदुः ।' इति शाश्वतः ॥ ७ ॥ विहितेति । हे मुरारे, जयदेवकविराजराजे जयदेव एव कवीनां राजराजा सार्वभौमस्वत्र मङ्गलश- तानि कल्याणशतानि कुरु । कीदृशे मणति तवगुणान्वदति । पुनः कीदृशे । विहितः पद्मावत्याः सुखसुमाज: सुखसमूहो येन तादृशे । एतेन स्वस्त्रीतत्परत्वकथनेन परस्त्री- वैमुख्यं ध्वनितम् । 'राजराज: कुबेरे ऽपि सार्वभौमे सुधाकरे ।" इति विश्वः ॥ ८ ॥ कृष्णोत्कण्ठाधिक्यमाह - स्वामिति । अयं कृष्णस्त्वां चित्तेन मनसा बहअतिश्रान्तोऽति- सयेन श्रमयुक्तो जातः । कन्दर्पेण कामेन च भृशमतिशयेन तापितः संतापितः । अतिसूक्ष्मे चित्ते पीनस्तनजघनवत्याः स्तनधारणेन श्रमो युक्त एव । अन्योऽपि यो गुरु- तरभारोहहनं करोति तस्याप्यतिश्रमो भवतीति भावः । अतस्तव सुधयामृतेन संबाधं संकटं बिम्बाधर बिम्बफलमवर मोठं पातुमिच्छति । तस्माद्धेतोस्वस्य कृष्णस्याङ्कं क्रोड क्षणं त्वमरूंकुरु भूषय । अहमपि स्फुटापराधा । अतस्तदङ्गारोहणे विभेमीयत आई- भूक्षेपेति । इद्द कृष्णे कुतः कस्माद्धेतोः संभ्रमो भयम् । कीदृशे कृष्णे | सेवितं त्वदीयपदाम्भोजं त्वदीयचरणकमलं येन तादृशे । अत एव दासजनेऽपि तत्र हेतुगर्भविशेषणमाह-ऋक्षेपेति । भ्रूक्षेपस्य भुवा चालनस्य या कक्ष्मीः संपत्तस्या Digificed by Google