पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ गीतगोविन्दकाव्यम् विततबहुवल्लिनवपल्लवघने । विलस चिरमलसपीनजघने । प्रविश० ॥ ५॥ । मधुमुदितमधुपकुलकलितरावे विलस कुमशरसरसभावे । अविश० ॥ ६ ॥ मधुरतरपिकनिकरनिनदमुखरे । विलस दशनरुचिरुचिरशिखरे | प्रविश० ॥ ७ ॥ [सर्गः ११ च्छीतं च । मृदुपवनेन सुरभिशीतम् ॥ ४ ॥ अपि च | मधुरतरेति । हे राधे इह विलस । किंभूते राधे । शुचीनि रुचिराणि दशनशिखराणि यस्यास्तस्याः संबुद्धिः | किंभूते इह | मधुरतरी यः पिकनिकरस्य निनदस्तेन मुखरे ॥५॥ अपि च । विततेति । हे राधे, इह चिरं विलस। किंभूते राधे। अलसं पीनं जघनं यस्या- स्वस्याः संबुद्धिः । किंभूते इह । विततानि बहूनि बलीनां नवपल्लवानि तैर्घने ॥ ६ ॥ अपि च । मधुमुदितेति । हे राधे, इह विलस। किंभूते राधे । कुसुमशरे कामे रसो राग: सामिलाषो भावोऽभिप्रायो यस्यास्तस्याः संबुद्धिः । किंभूते इह । मधुना ललित मनोहरं गीतम् । लालित्यं शवविशेषः । यस्यास्तादृशि । यद्वा कृष्णे विलस | कीदृशे कृष्णे। रतिललितं मनोहरं वलितं संभक्त गीतं यस्य दादृशे । कचि त्सरसेति पाठः । ललितलक्षणं तु --'नानाविधमनाहायै स्वभाषेन मनोहरम् । शृङ्गार- चेष्टितं स्त्रीणां ललितं संप्रचक्ष्यते ॥ ४ ॥ विततेति । हे राधे, माघनसमीपं प्रविश | इह केलिसदने चिरं विरूस च । कीदृशे केलिसदने । विततैविस्तीर्णै हुभिर्वडीनां कतानां नवपञ्चवैर्षने सान्द्रे | त्वं कीदृशि | अलसपीनजघने । अलसे मन्थरे पीने मांस जबने । यस्यास्तादृशि ॥ ५ ॥ मधुमुदितेति । कीदृशे केलिसदने । मधुना पुष्परसेन मुदिता - न्यानन्दितानि यानि मधुपकुलानि भ्रमरसमूहास्तैः कलितो विहितो रावः शब्दो यत्र तादृशे । त्वं कीदृशि | मदनरसरमसभावे मदनस्य कामस्य यो रसः शृद्धाराख्यस्तत्र यो रभस उत्साइस्तेनोपलक्षितो मावो यस्यास्तादृशि । यद्वा । इह माथवे विलस | कीदृशे घवे । मदनरसेन यो रमसस्तेनोपलक्षितो भावो यस्य तादृशे इत्यर्थः । यद्यपि मधुपेनैव मधुपानकर्तृत्वं प्राप्तं तथापि तदानीं मधुपानप्राप्तये मधुमुदितेत्युपात्तम् ॥ ६ ॥ मधुरतरेसि । कीदृशे केलिसदने । मधुरतरो यः पिकनिकराणां समूहानां निनदः शब्दस्तेन मुखरे वाचाले। यहा। मतदपि राधे इत्यस्यैव विशेषणम् । तदा मधुरतर- पिकनिकराणामिय यो निनदः सुरते कण्ठकूजितं तेन मुखरमित्यर्थः । पुनः कीदृशि | दशनरुचिर्दन्तकान्तिरेव रुचिरं शिखरं माणिक्यविशेषो यस्यास्तादृशि । यद्वा । दशनरुचिवद्रुचिरं शिखरं माणिक्यविशेषो यस्यास्तादृशि । यद्वा विल्स र माधवे कीदृशे माधवे । दशनरुचिरचिरशिखरे । दशनस्चीत्यत्र द्वितीयन्या- ख्याने प्रसिद्धशिखरस्योपमेयतया विपर्यासोपमा बोध्या १ तदुक्तं दण्डिना – 'त्वदा- १ 'विलस मदनरसरमसभाषे' इति पाठः । Digiticsd by Google J C ! B