पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् [सर्गः ११ द्वारे निकुञ्जनिलयस्य हरिं निरीक्ष्य ब्रीडावतीमथ सखीमियमित्युवाच ॥ ५ ॥ वराडीरागरूपंकतालाभ्यां गीयते । प्र० २१ ॥ मञ्जुतरकुञ्जतलकेलिसदने । विलस रतिर भसहसितवदने ॥ १ ॥ प्रविश राधे माधवसमीपमिह ॥ ध्रुवम् ॥ यस्य द्वारे हरिं निरीक्ष्य किंभूतां राधाम् । ब्रीडावतीम् । कामवतीनामपि युव- तीनां प्रथमसंगमे लज्जा किमपि कामातिशयं विदधाति । किंभूतस्य निलयस्य । हारा- वल्यास्तरलो मध्यमणिः काचनस्य मेखलादाम च मञ्जीरौ च कङ्कणे च तेषु मणयः तेषां छुत्या दीपितस्य । वसन्ततिलकावृत्तम् । अतिशयोफिरलंकारः ॥ ५ ॥ तदेव सखीवाक्यं विवृणोति – मञ्जुतरेति । अत्राष्टपद्यामुब्राहापेक्षया ध्रुवस्य बाहुल्यम् । तत्रापि च प्रतिपदमन्तिमं खण्डं पदान्तरापेक्षया नवं नवमेवेति बोद्धव्यम् । तत्रापि राधाविशेषणानि सर्वाण्यनुभावत्वेन बोद्धव्यानि । स्थानविशेषणानि च विभावत्वेनेति । प्रविशेत्यादि । हे राधे माधवसमीपं प्रविश । इह निकुञ्जे विलस गमनागमनादि- चेष्टाः कुरु । किंभूते राधे । रतिरभसेन रतिहर्षेण हसितं अदनं यस्याः । एतावद्भुष- स्थानीयम् । तदनुस्यूतं त्वमेवपदमित्यस्य विशेषणम् । किंभूते । मञ्जुतरं मनो- i निकुञ्जनिलयस्य निकुञ्ज एव निलयो निभूतगृहं तस्य द्वारे हरि निरीक्ष्य दृष्ट्वा जीडावर्ती लज्जावतीमेतस्मै कति निष्ठुराणि वचांसि मयोक्तानि, संप्रति कथं तत्समक्षं यामीति लज्जया युक्ताम् । कीदृशस्य निकुञ्जनिलयस्य । हारावल्यो हारपलयस्तरलो हारमध्यगमणिः कानकाश्विदाम सुवर्णखचितमेखला मञ्जीरो नूपुरः कङ्कणं करभूषणमेतेषु खचिता ये मणयस्तेषां घुत्या कान्त्या दीपितस्य प्रकाशितस्य । 'तरलक्षचले खिङ्गे हारमध्यमणा- वपि' । इति विश्वप्रकाशः ॥ ५ ॥ तदेव गीतेनाइ–मञ्जुतरेति । गीतस्यास्य वराडी- रागो मठतालध । गीतार्थस्तु - हे राधे माधवसमीपं कृष्णान्तिकदेशं प्रविश । इह मञ्जतरकुञ्जतलकेलिसदने मञ्जतरं यत्कुञ्जतलं निकुञ्जाभ्यन्तरदेशस्तदेव यत्केलिसदनं लीलागृहं तत्र विल्स विलासं कुरु । कीदृशि ! रतिरभसेन सुरतोत्साहेन इसितं हास्ययुक्तं वदनं भुखं यस्यास्तादृशि | प्रविश राधे माथवसमीपमिह विलसेत्युक्तम् । ध्रुवपदमनु वर्तमानत्वात् । यद्वा । इह माधवे विलस । कीदृशे माधवे । मञ्जुतरकुश्चतल- केलिसदनं यस्य तादृशे । पुनः कीदृशे । रतिरभसेन इसितं वदनं यस्य तादृशे । १ 'सखी निजगाद राधाम्' इति पाठः । २ 'रागमठतालाभ्यां' 'रागाडवतालाभ्यां' इति पाठौ । Google Dilized by