पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् १४९ काश्मीरगौरवपुषाम भिसारिकाणा- माबद्धरेखमभितो रुचिमञ्जरीभिः । एतत्तमालदलनीलतमं तमिस्रं तत्प्रेमहेमनिकषोपलतां तनोति ॥ ४ ॥ हारावलीतरलकाञ्चनकाश्चिदाम- केयूरकङ्कणमणिद्युतिदीपितस्य | त्यमावहति । यतो मायाविनो माययैव साध्याः । अत्र च क्रमेण तमसो वृद्धिर्ज्ञेया । पूर्व प्रादुर्भावे ऽक्ष्णोरञ्जनम् । किंचिहृद्धे कर्णाभरणाच्छादनम् । तत एव प्रवृद्धे शिरो- मुकुटवृत्ति । ईंषदपरिसमाप्तेः कुचयोर्हारादिलोपः | क्रमेण प्रवृद्धं सत्सर्वंशरीरं व्याप्य वर्त्तत इति क्रमवृद्धिदर्शिता । धूर्तप्रहणेन ता अपश्यन्त्यो भक्तीं न कस्यचि- यथासंख्य मलंकारः दमे कथयिष्यन्तीति निःशङ्कं ब्रज | शार्दूलविक्रीडितं वृत्तम् । ॥ ३ ॥ इदानीं तमस्यपि तामेव प्रतीक्षत इत्याह काश्मीरेति । हे सखि, एत- त्तमित्रं तस्य श्रीकृष्णस्य त्वयि यत्प्रेम तदेव हेम तनिकषोपलतां तनोति । तमां- स्यपि बहीनामभिसारिकाणां प्रात्यवसरेऽपि त्वय्येव तस्य प्रेमेति निकषोपलहे- •मपरीक्षा साम्यम् । किंभूतं तमिस्रम् । अभितो रुचिमञ्जरीभिः कुङ्कुमगौरवपुषां स्वैरिणीनामाबद्धा रेखा आभोगो विस्तारो येन । किंभूतं तमिस्रम् । तमालदलनी- लतमम् । एतावता तैमसो ऽतीव प्रवृद्धाबभिसरेति प्रेरणम् । वसन्ततिलका वृत्तम् । अत्रोपमालंकारः ॥ ४ ॥ इदानीं भावान्तरेण तं पुष्णाति–हाराव- लीति । इयं दूती राधां प्रति वक्ष्यमाणमुवाच । किं कृत्वा । निकुञ्जनिल- कस्तूरिकापत्रकं मृगमदरचनां निक्षिपत् । कीदृशं ध्वान्तम् । नीलनिचोलचारु नीलनि- चोळवत्कशुकवच्चारु मनोहरम् । तथा च तवाभिसारयोग्याभरणानि तम एवार्पयि- व्यतीति किमलंकरणेन विलम्बेनेति भावः । अत्र स्त्रीणामसंकरणादिरचना नपुंसकादी- नामेवेति नपुंसकनिर्देशेन ध्वनितम् । 'कालस्कन्धस्तमाल: स्यात्तापिच्छः' इत्यमरः । “स्याद्गुच्छ: स्तनके स्वन्धे हारभेदकलापयोः' इति विश्वः ॥ ३ ॥ किं च संप्रति मणिसु- वर्णाभरणं नोपादेयमित्यत आह – काश्मीरेति । काश्मीरवत्कुङ्कुमद्दौरं वपुः शरीरं यासां तादृशामभिसारपराणां नायिकानामभित उभयतो मणिमञ्जरीभिर्मणिपरंपराभि- राबद्धा रेखा येन तादृशमेतत् समालदलनीलतमं तमालदलवच मालपल्लव वदतिशयेन नीलं तमिस्रमन्धकार तोमहेमनिकषोपलता तनोति विस्तारयति । संकेतभूमि ब्रजन्तीनामभि- सारिकाणां ताटङ्ककङ्कणमञ्जीरादिखचितमणिदीप्तिभिरुभयपार्श्वे उद्दयोते सति रेखाकार तथा लक्ष्यमाणातिगौरतराङ्गकान्तिरन्धकाररूपकषपट्टिकायां तत्प्रेमसुवर्णरेखेव मातीति भावः । अथ चैतादृश्यपि गाढान्धकारे कान्तारे सर्वे मुक्त्वैकान्ताभिसारप्रस्थानेन प्रेम्णः शुद्धिं परीक्ष्यत इति ध्वनिः । ‘पाषाणप्रस्तरभावोपलाशमानः शिला दृषत्' इत्यमरः ॥ ४ ॥ हारावळीति । अथानन्तरमियं दूती सखीं राधामिति वक्ष्यमाणमुवाच । कीदृशीं सखीम् । Dalived thy Google