पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

· गीतगोबिन्दकाव्यम् [सर्गः १९ स त्वां पश्यति वेपते पुलकयत्यानन्दति स्विद्यति प्रत्युद्गच्छति मूर्च्छति स्थिरतमः पुञ्जे निकुञ्जे प्रियः ||२|| अक्षणोनिक्षिपदञ्जनं श्रवणयोस्तापिच्छगुच्छावलीं मूर्ध्नि श्यामसरोजदाम कुचयोः कस्तूरिकापत्रकम् । धूर्तानामभिसारसंभ्रमजुषां विष्वसिखि ध्वान्तं नीलनिचोलचारु सुदृशां प्रत्यङ्गमालिङ्गति ॥ ३ ॥ । कुलो भवति दूरं च पश्यति । एतावता हि साविकभावी स्तम्भवैवर्ण्य संजातौ भवत इति सूचितम् । चिन्तया स्तम्भं दूरदर्शनेन वैवर्ण्यमाप्नोति । दृष्ट्वा च स्मरकथां चक्ष्यतीति नेपते । पुलकयति च । एवं द्वावपरौ सात्विको चेपथू रोमाञ्चश्चेति । कथाः कृत्वा प्रत्यमालिङ्गनैः प्रीति यास्यतीत्यानन्दति आनन्दात्रु मुश्बति खिद्यति च । एवमथुस्वेदानुतौ । आलिय च नानारतोपचारै रेस्यते । चिन्तया आव्हानाशकले प्रत्युद्गच्छति । लदलाभे मूर्च्छति च । एवं स्वरभङ्गप्रलयौ दर्शितौ । एवं स कृष्णस्वद- कियाष्टावपि सात्विकान्भावाननुभवन्नास्ते । प्रत्यालिङ्गनेन स्थितालिङ्गनं वृक्षादि- रूढमुक्तं भवति । तलक्षणं यथा- 'रमणचरणमेकेनाविणाक्रम्य खिन्नं श्वसितमपर- पाछेनाश्रयन्ती तदूरुम् । निजमथ भुजमेनं प्राश्चयन्ती तदंसं तरुमिव कमितारं चुम्बना- र्थाषिरोढुम् ॥ यदभिलषति नारी तञ्च वृक्षाधिरूढम् ॥' शार्दूलवृत्तम् । दीपकमलं- कारः ॥ २ ॥ इदानीमभिसारिकासमय माह- अक्षणोरिति । हे सखि, विष्वक् चतु- दिक्षु नीलप्रच्छदपटसदृग्ध्वान्तं सुदृशः प्रत्यकमालिङ्गति । नीलप्रच्छदपटवदाच्छाय अदृश्यां करोतीत्यर्थः । किं कुर्वत् । धूर्त्तानां मायाविनामभिसारे संभ्रमं वेगं भज- न्सीनामुत्कोचमिव । एतदेतत्कुर्वस्तदाह-भक्ष्णोरअनं निक्षिपत्। अपि च कुचयोः कस्तूरिकापत्रावलीरचना विशेष मिन निक्षिपत् । अत्र धूर्ताग्रहणेन निक्षेप औचि [1] प्रीतियुक्तापि मया सइ रंस्थते केलि करिष्यति (इति) चिन्ताकुल: सन्कृष्णः स्थिर- समः पुणे स्थिरान्धकारसमूहे निकुञ्जे त्वां पश्यति ध्यानदृष्टया किमियं प्ररुषं वदिष्यति चेति भिया साध्वसेन वेपते कम्पते पुरुकयति । अङ्गानीत्यर्थात् । ध्यानेनैव तथा- लिनं परिकल्प्य साध्यसेन रोमाययुक्तो भवतीति भावः । पश्चाद्ध्यानेनैव त्वत्सुरतकेलिं परिकल्प्यानन्दयुक्तो भवतीति । ततो ध्यानेनैव सुरतसुखं परिकल्प्य स्विद्यति प्रस्वेद- युक्तो मनति पश्चास्केलिं कृत्वोत्थाय गन्तुं प्रवृत्तायां त्वयि प्रत्युद्गच्छति प्रत्युत्थानं करोति । पश्चाद्धयानविच्छेदे त्वामदृष्ट्वा मूर्च्छा प्राप्नोति ॥ २ ॥ नन्वलंकरणरचन विधाय गन्तंभ्यमित्यत आइ-मक्ष्णोरिति । अभिसारसाइसकृताममिरूपं साहसं कुर्व- सीत्य भिसारसाइसक्नुतस्त्रासामत एष धूर्तानां शठानां सुदृशां नायिकानां ध्वान्तं तमो निकुञ्जे विष्वक्सर्वतः । प्रत्यक्षमम प्रति आश्विष्यति । तदेव विशेषणैराह-अक्षणो- रिति । किं कुर्वत्तमः | अक्ष्णोर्नयनयोरञ्जनं कब्जलं निक्षिपदर्पयत्। कुचयोः स्तनयोः १ 'कम्पते' इति पाठः । २ 'सारसाइसकृतां' 'सारसस्वरहृदां' इति च पाठी । by Google Dgilized by