पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

I सर्गः ११] रसिकप्रिया–रसमञ्जर्याख्यटीकाद्वयोपेतम् श्रीजयदेवभणितमधरीकृतहारमुदासितवामम् । हरिविनिहितमनसामधितिष्ठतु कण्ठतटीमविरामम् ॥ मुग्धे० ८ सा मां द्रक्ष्यति वक्ष्यति स्मरकथां प्रत्यङ्गमालिङ्गनैः प्रीतिं यास्यति रंस्यते सखि समागत्येति चिन्ताकुलः । श्रीजयदेवेति । इदं श्रीजयदेवभणितं हरावारोपितमनसामविराममविच्छे- दं कण्ठतटीमधितिष्ठतु | अधरीकृतो हारो मुकादिप्रथितो येन । पक्षे ऽधरीकृतो हारः शुद्धं वचनं येन । पुनः किंभूतम् । उदासितवामम् । उदासिता वामा स्त्री येन । अथवा उदासितं हरिभक्तिप्रतीपं वचनं येन वा उदासितं निराकृतमन्यदपि सुन्दरं येन इति । हारनारीसुन्दरादीनां परिहारेणेदमेवैकं कण्ठे धारणीयमित्यर्थः ॥ तथा च सङ्गीतराजे- 'आदिताल: प्रथमतः प्रतिमण्ठस्ततः परं । चतुर्मात्राम- ण्ठश्च तुर्थ: स्यादहतालकः ॥ तालो वर्णयतिः पश्चानवमात्रिकमण्ठकः । निःसारुच तथा झम्पा द्रुतमण्ठश्च रूपकः । प्रतितालस्त्रिपुटक एकतालीतिसंज्ञया । त्रयोदशकमा- त्तालाः प्रतितालं पदानि च । यथा शोभालतियुजि तावन्त्येव ततः परम् । काहली तुण्डकिन्यौ च भुक्ता च शृङ्गको ॥ पटहश्च हुडकं च मुरजः करटापि च । रुण्डा च डमरूडक्का पाटा एतत्समुद्भवाः । निःसारौ पटहो ढक्का मर्दलस्जिवली तथा। करटेति तथैतस्यां प्रधानाक्षरयोजना । एकताल्या ढकली च त्रिवली दुन्दुभिस्तथा । घट ऋतुर्वर्ण्या स्यादधिका पाटसन्ततिः । प्रतितालं प्रयोगोऽपि रागो नन्दो निगद्यते । - झरो विप्रलम्भाख्यो रस उत्तमनायकः दूतीसंवादकथनं नायिकायामिहेष्यते । एतत्स्यालक्षणं यच्च तालराजिरसः स्मृतः । प्रबन्धः कुम्भभूपेन हरिप्रवणचेतसा ॥" इति श्रीहरितालराजिजलघर विलसितनामा विंशतितमः प्रबन्धः ॥ ८ ॥ इदानीं तच्चेष्टाकथनव्याजेन गन्तुं व्याकुलयति सा मामिति । हे सखि, प्रियः कृष्णो निकुने भवत्या अपेक्षयेत्येवं कुर्वनास्ते । किंभूते निकुओ । स्थिरतमः पुजे स्थिरान्धकारचये । इतीति किम् । सा प्रिया समागत्य मां द्रक्ष्यतीति चिन्ता- इति ध्वनितम् ॥ ७ ॥ श्री जयदेवेति । इदं श्रीजयदेवेन मणितं हरिविनिहितमनसां हरौ विनिहितं तत्परं मनो येषां तादृशानामविराममनवरतं कण्ठतटीमधितिष्ठतु कण्ठदेशे वसत्वित्यर्थः । कीदृशम् । अधरीकृतः स्वगुणैर्हानिकृतो हारो येन तादृशम् । पुनः कीदृशम् । उदासिता स्वगुणैस्तिरस्कृता रामा येन तादृशम् । यद्यपि हारस्य रामाणां च कण्ठदेशस्थित्या शोभाप्रदत्वं संभवति, (तथापि ) तयो रागिणामेव शोभाप्रदत्वं न मुमुक्षूणाम् । तत्रापि तारुण्य एव न तु सर्वदा । जयदेवभणितं तु कृष्णकथात्वेन सर्व- वयःसु शोभाप्रदमिति हारापेक्षया नायिकयापेक्षया चेदमधिकमिति भावः । कण्ठतटीमित्यत्र ‘अधिशीथासां कर्म” इत्यधिकरणे द्वितीया ॥ ८॥ इदानीं हरेरुत्कण्ठाधिक्यमाई - सा मामिति । ई सखि, राधा आगत्य मां द्रक्ष्यति ईक्षिष्यते । दृष्टापि मां स्मरकथां वक्ष्यति कथविष्यति । स्मरकथामुक्त्वापि सा प्रत्यकावयवं ममालिङ्गनैः प्रीतिं यास्यति । १ 'सितरामम्' इति पाठः । by Google १४३ Dgilized by