पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 गीतगोविन्दकाव्यम् [सर्गः ११ अघिगतमखिलसखीभिरिदं तव वपुरपि रतिरणसज्जम् । चण्डि रणितरशनारवडिण्डिममभिसर सरसमलज्जम् ॥ मुग्धे ०६ स्मरशरसुभगनखेन करेण सखीमवलम्ब्य सलीलम् । चल वलयकणितैरवबोधय हरिमाप निगदितशीलम् || मुग्धे०७ .१४२ अपि च । अधिगतमिति । हे चण्डि, सखीसकाशालजारहितं यथा स्यात्तथा अभिसर । अर्थात्कृष्णवसतिम् । यतोऽखिलसखीभिरिदमधिगतं ज्ञातम् । इद- मिति किम् । तव वपुरतीव रतिरणाय विहितसामग्रीकं वर्त्तते इति सखीनामप्रे वपुषैव निवेदितम् । अतो लज्जां मा कुरु । किंभूतं वपुः । रसितो रशनावलिरेव डि. ण्डिमः पणववाद्यविशेषो येन । अपि च किंभूतम् । सरसं सरागम् । अत एव रणोद्य- तायाञ्चण्डीति विशेषणमुचितम् ॥ ६ ॥ अपि च । स्मरशरेति । हे सखि, करेण सखीमवलम्ब्य सलीलं चल | अपिश्चार्थे । च पुनः । निगदितशीलं निगदितं तव प्र तीक्षया सुभदं व्याख्यातं शीलं यस्य । अथवा पूर्वपददोषत्वेन सखीभिज्ञानपरं निगदितं च तच्छीलं च भवत्याञ्चरित्रं तत् । हरिमपि बोधयेत्यपिशब्दार्थः । कि भूतेन स्मरशरसुभगनखेन स्मरशरवत्पुष्पवत्सुभगा नखा यस्य ॥ ७ ॥ अपि च । लने सति बहिर्जलधारानिः सरणसंभवात् । पुनः कीदृशम् । सूचितं हरे: कृष्णस्य परिरम्भमालिङ्गनं येन तम् । नारीणां स्तनकम्पः प्रियं सूचयतीति शाकुनिकाः । तदु कम् । 'नित्यं नार्या: स्तने कम्पः प्रियसंगमसूचकः । इति । पूर्णकलशत्वेन स्तनरूपणमपि यात्रायां पूर्णकलशदर्शनं प्रियसूचनाय ॥ ५ ॥ ननु सखोजनेषु पश्यत्सु कथं मया गन्तव्यमित्यत आइ— अधिगतमिति । इदं तव वपुः सखीभिरतिशयेन रतिप्रसङ्गाय सुरतप्रसङ्घय सज्जं कृतालंकरणादिकृत्यविधानमधिगतं ज्ञातम् । तथा च सखीभिर्दिष्टमे- वाधुना किं विलम्बेनेति भावः । यद्वा सखीभिरिदं तव वपुर्वदुषा रतिरणे शय्यामधिगतं ज्ञातम् । तथा च तासां का लज्जेति भावः । अतो हे चण्डि कोपने, रसितः शब्दाय- मानः कृतो रशनावलिः क्षुद्रघण्टिकावलिरेन डिण्डिमो वाद्यविशेषो यत्रैवं यथा स्यादे- वमभिसर कृष्ण संकेतभूमिमुपैहि । अन्यत्रापि रणे डिण्डिमस्ताब्यत एवेति ध्वनिः । पुनः कथं यथा स्यात्सरसमलअम् । रसः शृङ्गाररसस्तत्सहितं लज्जारहितं च यथा स्यादेवम् ॥ ६ ॥ स्मरेति । करेण सखीमवलम्ब्य सलीलं लीलासहितं यथा स्यादेवं चल गच्छ। कीदृशेन करेण । स्मरस्य कामस्य ये शरास्तद्वत्सुभगा: सुन्दरा नखा यस्मिस्तादृशेन । अन्यस्मिन्नपि रणे शस्त्रास्त्राणि भवन्ति । रतिरणे तु त्वन्नखा एव स्मरस्य शस्त्राणीति भावः । अथ वलयकणितैः कङ्कणशन्दैईरिमपि निजगतिशीलं स्त्रीयगमन- स्वरूपमवबोधय शापय । अन्यत्र समीचीनो योध: प्रतिभटमवहितं कृत्वैव युध्यत १ ' निजगतिशीलम्' इति पाठः । Dgilized by Google .. 1