पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११] रसिकप्रिया- रसमञ्जर्याख्यटीकाद्वयोपेतम् अनिलतरलकिसलयनिकरेण करेण लतानिकुरम्बम् । प्रेरणमिव करभोरु करोति गतिं प्रति मुञ्च विलम्बम् मुग्धे ०४ स्फुरितमनङ्गतरङ्गवशादिव सूचितहरिपरिरम्भम् । पृच्छ मनोहरहारविमलजलधारममुं कुचकुम्भम् ॥ मुग्धे० ५ शासनबन्दिनीति तेषां विभावत्वमुक्तम् ॥ ३ ॥ अपि च । अनिलेति । हे कर- भोरु करभवदूरू यस्याः । 'मणिबन्धादाकनिष्ठं करस्य करभो बहिः । लतानिकुर- म्बं लतासमूहः । अनिलतरलकिसलयनिकरेणैव करेण । गतिं प्रति प्रेरणमिव करोति । अतो विलम्बं मुख | यत्र अचेतना अपि चेतनवत्प्रतिबोधयन्ति तत्रेष्ट- सिद्धिरवश्य भाविनी । अत्र करसान्निध्याल्लताशब्देन सख्यः त्वां त्वरयन्तीति यो- त्यते ॥ ४ ॥ अपि च । स्फुरितमिति । हे सखि, अभुं कुचकुम्भं पृच्छ । प्रिय- करस्पर्शलालसकुचकुम्भचेष्टां ज्ञातुमिच्छां कुरु | भाविप्रियावेदकः कुचकलशोऽपि त्वां प्रेरयतीत्यर्थ: । किंभूतं कुचकुम्भम् । स्फुरितम् । कुचस्फुरणं प्रियसंगममावेदयतीति सामुद्रिकज्ञाः । कस्मादिव । कामोर्मिवशादिव । किंभूतम् । सूचितः कथितो हरे: परिर- म्भो येन । अपि किंभूतम् । मनोहरो हार एव बिमलजलधारा यत्र । शकुनकलशोऽपि तरङ्गचशात्सूचितप्रियप्राप्तिर्भवति । विमलजलधारोऽपि । खण्डश्लेषालंकारः ॥ ५ ॥ सतीत्यर्थ: । भावं कृष्णानुरागं भजाश्रय । अत्र पिकनिकरशंकारेण कृष्णमधुरालापस्य परैरलक्ष्यतया तदीयनिःशङ्कभाषितान्यपि त्वं तत्रागता सती श्रोष्यसीति ध्वनितम् । अथ च पिकस्य मधुरस्वरो यात्रायां शकुन इत्यपि ध्वनितम् । 'बन्दिनः स्तुतिपाठका: ' इत्यमरः ॥ ३ ॥ अनिकेति । हे करभोरु, करभः कनिष्ठान्सो मणिबन्धपर्यन्तः करस्य बहिर्भागस्तद्वनिम्नोन्नतौ करू यस्यास्तादृशि । गर्ति गमनं प्रति विलम्ब कालक्षयं मुश्च । अनिलतरल किसलयनिकरेण करेण । अनिलेन वायुना तरलश्चञ्चलो यः किसलयनि- करो नवपल्लव समूहस्तत्स्वरूपेण करेण लतानिकुरम्बं लतासमूहस्तव प्रेरणमिव करोति । किसलयकम्पच्छलेनासमञ्जसमसइमानो लतासमूहोऽपि त्वां प्रेरयतीति भावः । अथवाग्रे पछवितवृक्षा दिदर्शनं यात्रायां फलसिद्धिसूचकम् । अतो गमनं प्रति विलम्बो न कार्य इति ध्वनितम् । तदुक्तं शकुनशास्त्रे- 'वामे मधुरवाक्पक्षी वृक्षः पल्लवितोऽग्रतः । अनुकूलो वहन्वायुः प्रयाणे शुभसूचकः' इति । 'निकुरम्बे कदम्बम् ।" इत्यमरः । ‘ मणिबन्धादाकनिष्ठं करस्य करभो बहिः ॥ ४ ॥ स्फुरितेति । अमुं कुचकुम्भं स्तन- कलशं पृच्छ । सखी समीचीनं वा वदतीति प्रश्नं कुरु । कीदृशम् स्फुरितं सक- म्पम् । कस्मादिवानङ्गत्तरङ्गवशादिवानङ्गस्य कामस्य यस्तरङ्ग ऊर्मिस्तद्रशादिव । अत्रान- इत्यनेन तस्या रसतरङ्गिणीत्वमाक्षिप्यते । अन्योऽपि कुम्भो नधास्तर: प्रेर्यमाणः सकम्पो भवतीत्ययमपि ते कुचकुम्भस्त्वयि रसतरविण्यामनङ्गतरङ्गैः प्रेरणादिव सकम्प इति भावः । श्वशब्द उत्प्रेक्षायोतकः । पुनः कीदृशं कुचकुम्भम् । मनोहरो यो हारः स एव निर्मला जलधारा यत्र तादृशम् । अत्र स्तनोपरिस्थितस्य हारस्य जलं- धारात्वरूपणात्स्तनयोः पूर्णकलशत्वेन रूपणमाक्षिप्यते । पूर्णादेव कलशात्तरङ्गैरान्दो- Dgilized by Google