पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० गीतगोविन्दकाव्यम् [सर्ग: ११ घन जघनस्तनभार भरे दरमन्थरचरणविहारम् । मुखरितमणिमञ्जीरमुपैहि विषेहि मरालनिकारम् ॥ सुग्धे० २ शृणु रमणीयतरं तरुणीजनमोहनमधुरिपुरावम् । कुसुमशरा सनशासनबन्दिनि पिकनिकरे भज भावम् ॥ सु०३ इयोतनार्थत्वान्निकुञ्जोपादानम् | पुनः किंभूतम् । विरचितचाटुवचनरचनम् । पुनः किंभूतम् | चरणे रचितप्रणिपातम् ॥ १ ॥ अपि च । घमेति । हे घनजघनस्तन- भारभरे । जघने च स्तनौ च जघनस्तनम् । घनं च तज्जघनस्वनं च । तस्य देशे भरोऽतिशयो यस्यास्तस्याः संबुद्धिः । मुखरितमणिमझीरं नूपरं यथा स्यात्तथा उपैहि आगच्छ । तेन चागमनेन मरलानां हंसानां निकार जयं विधेहि । कथं यथा भवति तथा । दरमन्थरेति । ईषन्मन्थरचरणविन्यासं यथा स्यात्तथा ॥ २ ॥ अपि च । घिति । हे मुग्धे, रमणीयतरं तरुणी- जनमोहनं मधुपानां बिरुतं शृणु | अपि च कामाज्ञास्तुतिपाठके पिकसमूहे भावम- मभिप्रायं भज । किमुक्तं भवति । मधुपशब्देन कृष्ण उपलक्ष्यते वर्णतः साम्येन त्वदोष्ठमधुपानेन च । अथ मधोदैत्यस्य पातनाच्छोषणान्मधुपः कृष्णः | तरुणी- जनमोहनधासौ मधुपश्च तस्य भवत्सङ्गमे विशिष्टान्सीत्कृतादिशब्दाञ्शृणु । अनु च त्वमपि तदा खात्मगतं रोषं त्यक्त्वा कोकिलखरा तमानन्दयेत्यर्थः । कुसुमसरासन- तर्हि संप्रति कुत्रास्तीत्यत आइ-संप्रतीति। संप्रत्यधुना मञ्जलो वेतसस्तस्य सीमनि पर्यन्ते यत्केलिशयनं क्रीडाशय्या तामनुलक्षीकृत्य यातं गतम् | त्वां तत्रस्थः प्रतीक्षत इत्यर्थः ॥ १ ॥ तां प्रोत्साइयन्ती सखी प्राइ । घनेति- हे राधे, उपैछि कृष्णमुपगच्छ । कथं यथा स्यात् । मुखरितः सशब्दः कृतो मणिमञ्जीरो मणिखचितो मञ्जीरो नूपुरो यत्र गमने । एवं यथा स्यात् । पुनः कथं यथा स्यात् । दरेण साध्वसेन मन्थरश्वरणविहारः पदविन्यासो यत्रैवं यथा स्यात् । तत्र हेत्वन्तरगर्भ विशेषणमाइ – घनेति । घनयोर्निबिडयोर्जघनस्तनयो- भरस्य भरोऽतिशयो यस्यास्तादृशि | मरालानां हंसानां स्वकीयमन्थरगमनेन मञ्जी- रादिशब्देन च निकारं तिरस्कारं विधेहि कुरु । संप्रति मरालेषु शब्दायमानेषु सत्सु मञ्जीरादिध्वनिरपि मरालशब्दत्वेनैव लोके ग्राह्य इति संप्रति योग्यो ऽभिसारक्षण इति ध्वनिः । अथ संप्रति हंसस्य शब्दो यात्रायां शुभं सूचयतीति गमनं प्रति विलम्बो न कार्य इत्यपि ध्वनितम् । तदुक्तं वसन्तराजीये- 'कृष्णासु सर्वास्वपि दर्शनेन इंसस्य शब्देन च सर्वसिद्धिः । इति । 'मरालो राजहंसे स्यान्मरालो समात्रके । इति धरणिः । 'निकारः स्यात्परिभवे धान्यस्योत्क्षेपणे ऽपि च ।" इति विश्वः ॥ २ ॥ शु. पिवति | तरुणीजनानां मोहजमकं मधुरिपोः कृष्णस्य एवं शब्दं श्रृणु । कीदृशम् । रमणीयतरमतिशयेन रमणीयम् । पिकनिकरे कोकिल्समूहे कुसुमशरासनमन्दिनि सति । कुसुमान्येव शरासनं धनुर्यस्य तादृशः कामस्त्रच्छासनस्य तदाशामा गन्दिनि स्ता- बके सति । यद्वा कुसुमशरासनं वन्दितुं नमस्कर्ते शीलमस्य ताइये कामाज्ञाकारिणि १ 'विकारम्' इति पाठ: । Dglized by Google