पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: ११] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् १३९ एकादशः सर्गः । सानन्ददामोदरः । सुचिरमनुनयेन मीणयित्वा मृगाक्षीं गतवति कृतवेशे केशवे कुञ्जशय्याम् । रतिरुचिरविभूषां दृष्टिमोषे प्रदोषे स्फुरति निरवसादां कापि राधां जगाद ॥ १ ॥ वसन्तरागयतितालाभ्यां गीयते । प्र० ॥ २० ॥ विरचित चाटुवचनरचनं चरणे रचितमणिपातम् । संप्रति मञ्जुलवञ्जुलसीमाने केलिशयनमनुयातम् ॥ १॥ मुग्धे मधुमथनमनुगतमनुसर राधिके || ध्रुवम् ॥ इदानीं कृतानुनयां राधां कापि सखी हरिमभि गमनाय प्रोत्साहयति-सुचि- रेति । कापि सखी राधां जगाद । क सति । प्रदोषे रजनीमुखे स्फुरति सति । भूते प्रदोषे । दृष्टि मुष्णातीति कर्मण्यण् । अभिसारिकाभिसरणावसान इत्यर्थः । किंभूतां राधाम् । निरवसादामङ्गीकृतानुनयेन गतखेदाम् । पुनः किंभूताम् । रचि- तनीलनिचोलाद्यभिसरणयोग्यवेषाम् । क्व सति । कृतवेशे कृतनेपथ्ये वा कृतगेहे कृष्णे कुअशय्यां गतवति सति । किं कृत्वा बहुकालानुनयेन मृगाक्षीमनुकूलयित्वा । मालिनीवृत्तम् ॥ १ ॥ तदेव प्रोत्साहमनुवति—विरचितेति । तत्र पूर्वे ध्रुवः । मुग्ध इति । हे मुग्धे प्रियाभिसरणकालानभिज्ञे राधिके । बालत्वद्योतनाय क प्रत्ययः । अनुगतमनुकूलं मधुमथनमनुसर । मा विलम्बं विधेहीत्यर्थः । इति ध्रुवः । अथ पदानि । विरचितेति ध्रुवेणान्वयः । किंभूतं मधुमथनम् । संप्रति इदानीमेव मनोरमवञ्जलसीनि केलिशयनमनुप्राप्तम् । वकुलादीनां विभावत्वेन परिणमनात्त- । सुचिरेति -- कापि सखी राधां जगादोवाच । क सति । प्रदोषे स्फुरति सति । की- दृशे | हग्विमोषे दृष्टौ विमुष्णाति, चोरयति विषयग्रहणासमर्थ करोतीति तादृशे । गाढान्धकारे इत्यर्थः । पुनः क सति | केशवे मृगाक्षी हरिणनयनां राधां सुचिरं बहुकालं यथानुनयेन प्रीणयित्वा कुअशय्यां लतावेष्टितकुटीराभ्यन्तरस्थशयनीयं गतवति गते सति । कीदृशे केशवे । कृतवेशे कृतालंकरणे । कीदृशीं राधाम् । रचिता रुचिरा मनोदरा भूषालंकृतिर्यया ताम् । पुनः कीदृशीम् । निरवसादां निर्गतोऽवसादः कृष्णागमनजन्यं दुःखं यस्यास्ताम् ॥ १ ॥ तदेव गीतेन कथयति-विरचितेति । गीतस्यास्य वसन्तरागो यतिताल: । गीतार्थस्तु हे मुग्धे राधे, मधुमथनं कृष्णमनुसर । कीदृशम् । अनुगतं त्वा मनुसृतम् । अनुगतत्वमेवाह — विरचितेति । विरचिता विहिता चाटुवचनस्य रचना संदर्भों येन तादृशम् । पुनः कीदृशम् । तव चरणे रचितः प्रणिपातः प्रणामो येन तादृशम् । Dgilized by Google