पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् [सर्गः १० सं प्रीतिं तनुतां हरिः कुवलयापीडेन स राधापीनपयोधरस्मरणकृत्कुम्भेन संमेदवान् । यत्र स्विधति मीलति क्षणमंपि क्षिप्रं तदालोकन- व्याँमोहेन जितं जितं जितमभूत्कंसस्य कोलाहलः ॥८॥ इति श्रीगीतगोविन्दे मानिनीवर्णने चतुरचतुर्भुजो नाम दशमः सर्गः ॥ १० ॥ रुचिरा चित्रलेखा च वर्णिता ॥ 'जसौ जसयलावसुप्रहयतिश्च पृथ्वी गुरुः ।" इति पृथ्वी छन्दः । कल्पितोपमालंकारः ॥ ७ ॥ स प्रीतिमिति । स हरिर्जगतां प्रीतिं तनुतां हर्षे विस्तारयतु । कीदृशो हरिः । कुवलयापीडेन कंसदन्तिना सार्द्धं रणे संभेदवा- संगमवान् । किंविशिष्टेन कुवलयापीडेन । राधापीनपयोधरयोः स्मरणकरी कुम्भौ यस्य तेन । क इत्यपेक्षायामाह -- यत्र हराविति हेतोः राधापीनपयोधरस्मरणादेव सात्विकभावोद्रेकात्क्षणं खियति स्वेदयति । मीलतीति । चक्षुषि निमीलति सति कंसस्य तदालोकनात्तस्य तथाविधस्य दर्शनाव्यामोहेन भ्रान्त्या क्षिप्रं वेगेन जितुं जितमिति को- लाहलो भवति स्म । भ्रान्तिमदाशिषावलंकारौ। हमारवीरयोः संकरश्च । शार्दूलविक्री- डितं वृत्तम् ॥ ८ ॥ आनन्दकन्दलीकन्दं मुकुन्दं नन्दनन्दनम् । प्रणम्य दशमं सबै व्याकरोत्कुम्भभूपतिः ॥ इति श्रीचित्रकूटाधीश्वरराजाधिराज महाराजश्री कुम्भकर्णविरचितायां रसिकप्रियायां चतुरचतुर्भुजो नाम दशमः सर्गः ॥ रचितचित्रलेखे रचिता मयि कोपवशाचित्रा विचित्रा लेखा अकुटी याभ्यां तादृशे । तथा च स्वर्गे एकैन चित्रलेखा त्वद्भूभ्यां तु चित्रलेखाद्वयं रचितमित्याश्चर्यमिति भावः । प्रयो नामायमलङ्कारस्तदुक्तं दण्डिना –'प्रेयः प्रियतराख्यानं रसवद्रसपेशलम्' इति । पृथ्वीनामकं चेदं छन्दस्तलक्षणं वृत्तरत्नाकरे। 'रम्भा कदल्यप्सरसोः' इति विश्वः । युव- तीनां समूहो यौवतम् । 'भिक्षादिभ्योऽण्’ | 'गार्भिणं यौबतं गणे' इत्यमरः ॥ ७ ॥ (अत्र सप्रीतिमित्यादि लोकटीका नोपलभ्यते आदर्श पुस्तके ॥ ८ ॥ ) स्फुटीकृतरसोत्करां प्रथितशालिनाथोहस- सुरद्रुमसमुद्भवां विबुधवर्गदत्तोत्सवाम् । नृणां सरसमाषवोत्तमगुणैः प्रमोदप्रदां लिइन्तु रसमञ्जरी रसिकचबरीका मुहुः ॥ १ ॥ इति श्रीमहामहोपाध्याय श्री शंकर मिश्रविरचितायां श्रीशालिनाथकारितायां गीतगोविन्दवीकायां रसमञ्जरीसमाख्यायां दशमः सर्गः ॥ १ 'प्रीति वस्तनुताम्' इति पाठः । २ 'क्षणमथ क्षिप्ते द्विपे तत्क्षणात्' इति माठः। ३ ' कंसस्याल्मभूमितं जितमिति व्यामोहकोलाहलः' इति पाठः । Dilized by ● Google