पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: १० ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् दृशौ तव मदालसे वदनमिन्दुसंदीपकं गतिर्जनमनोरमा विजिंतरम्भमूरुद्वयम् । रतिस्तव कलावती रुचिरचित्रलेखे भ्रुवा- वहो विबुधयौवतं वहसि तन्वि पृथ्वीगता ॥ ७ ॥ । न्तिपराकरणशीलं चकास्ति । अनेन कृष्णवर्ण उन्मादनबाणोऽमाणि । अपि च । तवेयं नासा तिलप्रसूनपदवीमत्येति अतिक्रामति । अनेन द्रावण बाण उक्तः । अपि च । हे प्रिये कुन्दाभदन्ति कुन्द दुब्वलदशने । अनेन शोषणबाण उक्तः । एवमेतैः पञ्चभिर्वाणैर्भवत्याः सेवको भूत्वा विश्वजेता भवतीति । शार्दूलं वृत्तम् । उपमावि- शेषोऽलंकारः । अनुप्रासो वर्णालंकारः । असमस्तपदा वैदर्भी रीतिः । प्रसादो गुण: स्थितलयं गानम् । संभाविता गीतिः । कौशिकी वृत्तिः ॥ ६ ॥ हशाविति । अहो इति आश्चर्ये । त्वं पृथ्वीगतापि दिव्यस्त्रीसमूहं वहसि । क्व कामित्याह । दशौ मदेनालसे वर्त्तते । अनेन मदालसा वहसीत्युतम् । अपि च । तव वदनं चन्द्रवद्दी- सिमर्त्तते । अनेन इन्दुमती नाम्नी अप्सराः कथिता । अपि च । तव गतिर्जन- मनांसि रमयतीति । अनेन मनोरमा काचन सुरस्त्री भणिता । अपि च तवोरुद्वयं विजितकदलीकाण्डं वर्त्तते । अनेन रम्भोका। अपि च तंव रतिः संभोग: कलावती हावभावकिलकिश्चितमोायितविन्वोकादिमती वर्त्तते । अनेन कुलावती काचि- देवनायिकोक्ता । अपि च तव भ्रुवौ रुचिरे चित्रे लेखे ययोस्ते तादृश्यौ । अनेन स्येवामा दीतियां ते दन्तास्तादृशि । तन नासा तिलप्रसूनपदवीं दिलपुष्पप्रसिद्धि मभ्येति प्राप्नोति । प्राय इति तर्कयामि । स प्रसिद्धः पुष्पायुधः पुष्पमेवायुधं शस्त्रं यस्य स: कामस्त्वन्मुखसेनया त्वन्मुखमेव सेना कटकं तेन विश्वं विजयते । कामः पञ्चभिः शरैर्विश्वं जयति । त्वन्मुखे बन्धूकमधूकनीलोत्परुतिलकुन्दपुष्पाणि पत्र सन्तीति त्वम्मु- खेनैष कामो विश्वं जयतीति भावः । 'बन्धूकं बन्धुजीवे स्यात् ' ( इति मेदिनी ।) 'मधु- पुष्पो मधूकश्च गुडपुष्पो मधुद्रुमः । इति हारावली ॥ ६ ॥ इशांविति । हे तन्वि, स्वं प्रथ्वीगता पृथ्व्यां भुवि गता प्राप्ता सती विबुधयौवतं देवयुवती समूहमाश्चर्येण वहसि धार- यसि । तदेवाइ – दृशाविति । तत्र दृशौ नेत्रे मदालसे मदेन हर्षेणाल से मन्थरे । अथ च मदालसा स्वर्वेदया। तथा च स्वर्गे एकैव मदालसा त्वं तु एकवद्वे मदालसे दधासीत्याश्चर्य- मिति भावः । तव वदनमिन्दुमत्यास्पदमिन्दुविषयिणी या मतिस्तस्यास्पदं विषय इत्यर्थः । तब मुखेऽयमिन्दुरिति मतिर्भवति । अमरलोकानामिन्दुमती काचन देवाङ्गना तस्या आश्रयः । तब गतिर्जनानां मनोरमा मनोहरिणी। अथ च मनोरमा नास्त्री या देवाङ्गना तदात्मिका | अथवा रमा लक्ष्मीस्तदात्मिकेत्यर्थः । तथा तबोरुद्वयमूरुयुग्मं विधुतरम्भं विधुते स्वशोभया तिरस्कृते रम्भे कदल्यौ येन तादृशम् । अथ च रम्भा स्वर्वेश्या स्वर्गे एकैव रम्भा त्वमू- रुद्वयात्मकं रम्भाद्रयं दधासीति भावः । अथ च तव रतिः सुरतकेलिः कलावती कौश- लशालिनी । अथ च तव रतिः कामपक्षी । अस्ति कलावती नाम्नी देवाङ्गना । ते भ्रुवौ १ ' मिन्दुमत्यास्पदं ' इति पाठः । २' विधुतरम्भम्' इति पाठः । । by Google. D gilicad by