पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् [सर्गः १० सुमुखि विमुखीभावं तावद्विमुञ्च न वेश्च न स्वयपतिशयस्निग्धो मुग्धे प्रियोऽहमुपस्थितः ॥ ५॥ बन्धुकछुतिबान्धवो ऽयमघर: स्निग्घो मधूकच्छवि- र्गण्डचण्डि चकास्ति नीलनलिन श्रीमोचनं लोचनम् । नासाभ्येति तिलप्रसून पदवीं कुन्दाभदन्ति प्रिये मायस्त्वन्मुख सेवैया विजयते विश्वंस पुष्पायुधः ॥ ६ ॥ पादानेन वसन्तसमयसंजातरुचिरालापको किलजेतृत्वं सूचितम् । वसन्ते हि कामिन्यः खैरं प्रियमनुसरन्तीति व्यज्यते । तरुणि, मौनं वचनशकौ सत्यामवचनमर्थान्त- सपाति तत्त्यजेति। अपि च दृष्टिभिरित्यत्र 'दृशिर् प्रेक्षणे' इत्यत्र प्रशब्दो दर्शन प्रकर्षे स्निग्धत्वादि वदति । तेन स्निग्धलोचनैस्तापं विनोदयेति विशिष्टोऽर्थो लभ्यते । हे सुमुखि, तावद्विमुखीभावं विमुञ्च । सुमुख्या विमुखीभावो न युतः । हे मुग्धे, अयमहमतिशयस्निग्धः स्नेहवान्प्रीतिमांश्च उपस्थित इति मां न वश्च इति न अपि तु वञ्च जानीहि । अयमिति औदासीन्यव्यावृत्त्यर्थो निर्देशः । अत्र मुस्वात्वं म घटते । चातुर्यमुपेत्य मां त्वदेकतानं जानीहीत्यर्थः ॥ अत्र हरिणीवृत्तम् । यथासंख्यमलंकारः । अनुकूलो नायकः । प्रसादो गुणः । कौशिकी वृत्तिः । वैदर्भी रीतिः । मागधी गीतिः ॥ ५ ॥ बन्धूकेति । हे चण्डि इति सांप्रतं कोपहानावपि भूतपूर्वकोपाश्रयणेन संबुद्धिः । प्रिय इति वितर्के । अहमिति जाने। स पुष्पायुध- स्त्वम्मुखसेवया विश्वं जयते । स इत्यनेन सबाणोऽपीश्वरदग्धः स्मर्यते । स तथाविधः सांप्रतं पुष्पैरपि आश्रयविशेषेण साधकैः सुरासुरैर्दुर्जयमपि विश्वं विजयते । तानेव तन्मुखसेविपौष्पान्पश्चबाणानुद्दिशति । हे चण्डि, अयं तवाधरो बन्धूकवु. तिबान्धवः बन्धुजीवकान्तिसदृशः । अनेन रक्ताकर्षणबाण उक्तः । अपि च तव गण्ड: स्निग्धो मधूकच्छविश्वकास्ति । विरहिणीनां हि गण्डे पीतिमा भवति । अनेन पीतो वशीकारबाण उको भवति । अपि च तव लोचनं नीलनलिनका- बिमुखीभावं त्यज मयि विमुख तावद्विमुख । सुमुख्यास्त्रे वैमुख्यमनुचितमिति भावः । मानं मुव त्यज । हे मुग्धे, अयं प्रियोऽनाकासित एवोपस्थित आगतः । कीदृशः । अतिशयलिग्भोऽतिशयेन स्लेइवान् । तथा च स्वयमागतः प्रियः (इति) हेतुनोचित इति भावः ॥५॥ संप्रति त्वयि मानवत्यां त्वन्मुखेनैद कामो मां पीडयति । अतस्त्वं प्रसीदे- त्याशयेनाइ-बन्धुकेत्यादि । अतिकोपने, अयं तदाधरो बन्धूकश्रुतिबान्धवो बन्धूकस्य पुष्पविशेषस्य या श्रुतिर्दीप्तिस्तस्या बान्धवः सुहृत् । अत्र तद्वान्धवरूपणेन बन्धूकबुति- समाधरनित्यधुतिर्ग्यज्यते । अयं सिग्धो गण्डः कपोलो मधूकच्छविर्मधूकपुष्पस्येव च्छविः कान्तिर्यस्य । एतादृशधकारित शोभते । कोचनं नीलनलिन श्रीमोचनं साकान्त्या नील- नलिनस्य नीलोत्पलस्य श्रियं कान्ति मोचयति त्याजयति । हे कुन्दाभदन्ति, कुन्दपुष्प- १ 'न वचय'; 'न मुभ माँ' इति च पाठः । २ "सेनया' इति पाठः । ● Google Dilized by