पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् । शशिमुखि तव भाति भङ्गुरभूर्युवजनमोहकरालकालसंपीं तदुदितभयभञ्जनाय यूनां त्वदधरसीधुसुधैव सिद्धमत्रः ॥ ४ ॥ व्यथयति वृथा मौनं तन्वि मपञ्चय पञ्चमं तरुणि मधुरालापैस्तापं विनोदय दृष्टिभिः । 4 चण्डि, त्वं मुदमुद्रद्द एव । नान्योऽवकाशः । चण्डित्वं यज । लया चण्डित्वे घ्रियमाणे पञ्चबाणचण्डालकाण्डदलनान्ममासवः प्रयान्ति ॥ वसन्ततिलकावृत्तम् । रतिर्भावो व्यङ्ग्यः । तेन रसवदलंकारता अनुकूलो नायकः । मुग्धा नायिका | प्रसादो गुण: । वैदर्भीरीतिः ॥ ३ ॥ इदानीं वात्स्यायनन्यायमाश्रित्य क्रमेणानुकू- लयति - शशिमुखीति । हे शशिमुखि, तन भञ्जुरभ्रूर्युवजनमोहकरालकालसर्पी विद्यते । युतोऽयमर्थः । शशिनो हिंसार्थश्रयणात् । या हिंस्रमुखी भवति तस्या मुखे भ्रूः कृष्णसर्पी भवत्येव । यूनां तरुणानां यतः सर्पाद्बुदितभयभञ्जनाय त्वदधरसी- धुसुधैव त्वदधरसीधुः स एव सुधा । तव किलामृतबुद्धया तत्सन्निधौ कृष्णस अवस्था न युज्यते । अथवा इति योजना । हे शशिमुखि, तव मुखे भ्रूस्तानत्सपत्य- नुमीयते । यतो यदुदितभयभञ्जनाय यूनां त्वघर एव सीधुः । पानसाधर्म्यात् । स एव सुधामधुरत्वाद्विषनाशनाय सिद्धमत्रः । अत्र सुधाया आस्वाद्यत्वेन ओषधित्वे वक्तव्ये यन्मन्त्रोपादानं तत्सर्वे युवसाधारण्येन शृङ्गाराभासव्यावृत्त्यर्थम् । अतिसौन्दर्यात् । अन्ये- स्मरन्तु नाम उपभोगयोग्यत्वं हेरेरेवेति । पुष्पिताप्रा वृत्तम् । अत्र कल्पितोपमा- रूपकालंकारौ । तमेव क्रमशब्दार्थ विशिनष्टि आसर्गपरिसमाप्तेः ॥ ४ ॥ व्यथय तीति । हे तन्वि कृशाहि, तवैतदृथा मौनं मां व्यथयतिः । त्वया तनुत्वाद्वक्कुमश- क्यत्वेन मौनं न भियते किंतु निरपराधे सापराधोऽयमिति वृथाशब्दवोत्यम् । अत एव व्यथयति । हे तरुणि, मधुरालापैः पञ्चमं पञ्चमखरं प्रपञ्चय विस्तारय । पञ्चमो- यथोचितदण्डाचरणं विधेयमिति भावः । 'चण्डी कात्यायनीदेव्यां हिंसकोपनयोषितोः' । इति विश्वः ॥ ३ ॥ ननु कोपो मम नास्त्येवेत्यत आह - शशिमुखीत्यादि । हे शशिमुखि चन्द्रानने, तब भङ्गुरभ्रूः भाति । कीदृशी | युवजनानां तरुणजनानां मो- इनाय करालो भीषणः कालसर्पः । भुजंगो दष्ट्वा मोहयति । इयं दृष्ट्वा मोहयतीलेतस्याः करालत्वम् । अतस्तदुदित विषभञ्जनाय तत्सकाशादुदितमुद्रतं यद्विषं तस्य भञ्जनाय नाशाय यूर्ना तरुणजनानां त्वदधरसीधुसुधैव त्वदीयाधर एवं सीधुर्मदिराविशेषः स एवामृतं तदेव सिद्धः साधितो मन्त्रः । अन्यो जपादिना विषं नाशयति । अयं त्वासादित एवेति एतस्यान्यमन्त्रापेक्षासिद्धत्वम् । तथा चायमपि तव भ्रूकालसर्पविषमूर्च्छितस्तस्या- प्यौषधत्वेन तवाधरः सुधायाः समान इति भावः । 'करालो भीषणेऽन्यवत्' इति विश्वः ॥ ४ ॥ व्यथयतीत्यादि हे तन्वि, तव वृथा मौनमकारणवाग्बन्धनं मां व्यथयति पीडयति । किं च । हे तरुणि, मधुरालपितैस्तैः पश्चमं स्वरविशेषं प्रपञ्चय वि- स्वारय । किंच। दृष्टिभिरवलोकनैस्तापं संतापं विनोदय विशेषतोऽपसारय । हे सुमुखि, १ ' कालसर्पः ' इति पाठः । २' विषभञ्जनाय ' इति पाठः । Dgilized by ● Google