पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ गीतगोविन्दकाव्यम् [सर्गः १० विशति वितनोरन्यो धन्यो न कोऽपि ममान्तरं प्रणयिनि परीरम्भारम्भे विधेहि विधेयताम् ॥ २॥ मुग्धे विधेहि मयि निर्दयदन्तदंशं दोर्बल्लिबन्धनिबिड स्तनपीडनानि । चण्डि त्वमेव मुदमुह पञ्चबाण- चण्डाल काण्डदलनादसवः प्रयन्ति ॥ ३ ॥ . इत्यर्थः । अत्र ममेति षष्ठधन्तमर्थवशात्सप्तम्या परिणम्यते । कथं शङ्का परिहरणीयेति वाक्यार्थद्वारेण हेतुमाह | सततग्रहणेन जीवितावधि त्वदृतेऽन्या काचन मम हृद- यमाश्रित्य न वर्तत इति बोधयति । हे प्रणयिनि, मम खान्ते घनस्तनजघनया त्वया सततमाकान्त अत एवान्यानवकाशवति वितनोरननादन्यो धन्यस्तादृशसौभाग्ययोग्यः कोऽप्यन्यः स्त्रीलक्षणो जनोऽन्तरं पश्चान विशति । साङ्गस्य प्रवेशाभाव इति तां कृत्वा शङ्कां मा कृथा इत्यर्थः । शङ्कां मुक्त्वा किं कुर्वित्याह-परीरम्भारम्भ आलि- नारम्भे विधेयतां दासतां विधेहि । अथवैवं योजना प्रणयिनीति काकाक्षिगोलक- न्यायेनोभयत्र संबध्यते । त्वयि योगो न युक्तमिति । हे प्रणयिनि, मयि नेइपरे परीरम्भारम्भे विधेयतां किंकरतां विधेहि । त्वया तु मतोऽहमालिङ्गनार्थे प्रयतेय तथा कुरु | हरिणीवृत्तम् । अत्र काव्यलिङ्गमलंकारः । प्रणयिनीति पदौचित्यं वर्णानुप्रासश्च । प्रौढा नायिका | प्रगल्भो नायकः । विप्रलम्भे सङ्गसिद्धिः ॥ २ ॥ इदानीं सापराधित्व- मभ्युपगम्याप्याह – मुग्धेति । हे मुग्धे आत्महितानभिज्ञे । अहमपराधीति चे- सहि मय्यपराधयोग्यं दण्डं निर्दयदन्तदंशदोर्वल्लिबन्धनिबिडस्तनपीडनानि विधेहि । अथवा कोपैकशरणेति चेत्तर्हि संबोधनमुखेनानुरूपं विशेषणमाह - हे चण्डि कोपने, पश्चबाणचण्डालः तस्य काण्डैः शरैर्दलनान्ममासवः प्रयान्ति । किं पुनस्तस्य पौरुषेण त्वमेव मुदमुद्वद्द | मया जितोऽयमिति जयपटहं चांदय । अथवा इत्यन्वयः | हे शतीत्यत आह—–परेति । परानवकाशिनि इतरावकाशशून्ये । तत्र हेतुमाइ त्वथेति । घने निबिडे स्तनजघने यस्यास्तादृश्या त्वया सतताक्रान्ते व्याप्ते । तथा च सदा त्वया . पूरिते मदीये स्वान्ते ऽन्यस्य प्रवेष्टुमेवावकाशो नास्ति । अनङ्ग एव परान्प्रविशति । तस्यामाभावादित्यर्थः । तस्मात्परीरम्भारम्भे आलिङ्गनारम्भे विधेयतां वचनग्राहितां विधेहि कुरु। परिरम्भमाचरेति मद्रचनं कुर्वित्यर्थः । 'रुक्तापशङ्कास्वातङ्कः' इत्यमरः || २ || मुग्धेत्यादि । मुग्धे सुन्दरि, निर्दयं दयारहितं दन्तदंशं दन्तक्षतम् । अथ च दोर्बलिनन्धं भुजलताबन्धं निबिडं गाढं स्वनाभ्यां पीडनं च विधेहि कुरु । ततो हे चण्डि कोपने, त्वमेव मुदमानन्दमश्चय प्राप्तहि । मम पुनः पश्यमाणः कामः स एव निरपराधं माइग्जनहिंसकत्वेन चाण्डालः । तस्य काण्डदळनान्नाराचप्रहरणादसवः प्राणाः प्रयान्तु निर्गच्छन्तु | चाण्डाकप्रहरणेन मरणे न समीचीना गतिः । अतस्त्वया साक्षादेव १ 'स्तनभरपरी' इति पाठः । २ 'मुदमवय पक्ष' इति पाठः । ३ 'चाण्डाल इति पाठः । ४ 'प्रयान्तु' इति पाठः । Dilized by Google } } 7