पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तर्गः १०] रसिकप्रिया–रसमञ्जर्याख्यटीकाद्वयोपेतम् इति चटुलचाटुपटुचारु मुरवैरिणो राधिकामधि वचनजातम् । जयति जयदेवकविभारती भूषितं मामिनीजनजनितशातम् | मिये० ॥ ८ ॥ परिहर कृतातङ्के शङ्कां त्वया सततं धन- स्तनजघनयाक्रान्ते स्वान्ते परानवकाशिनि । र

॥ ७ ॥ अपि च । इतीति । इत्यमुना प्रकारेण चटुलचाटुपटुचारु मुरवैरिणो राधिकामधिकृत्य वचनजातम् । जयदेवकविभारतीभूषितम् । पुनः किंभूतम् । मानिनीजनजनितशातम् । मानिनीजनस्य अनितमुत्पादितं शातं सुखं येन ॥ ल- लितापि यदि पदरचना न धातु योगादृते विभाति शुभा । इति कुम्भकर्णनृप - तिर्गायति तां गीतगोविन्दे ॥ तथा च सङ्गीतराजे-'तालो वर्णयती रागाः क्रमादष्टादश स्मृताः । मध्यमादिश्च ललितो क्सन्तो गुर्जरी तथा ॥ धनासी भैरवो गोण्डकृति - शाङ्किकापि च । मालवीय केदारमालबीयादिगण्डकी | स्थानगौण्डव श्रीरागो • मल्हारश्च वराटिका । मेघरागच भद्रवद्धोरणीनियता इमे ॥ यावद्रागं पदानि स्युः मानते पाटस्वराणि तु । कचित्कचिद्वतालापभूषितानि यथारुचिः ॥ मिथः प्रियो तिसंभारविप्रलम्भरसानि च । यत्र स्यात्स प्रबन्धोऽयं रागराजिविराजितः ॥' इति चतुरचतुर्भुजरागराजिचन्द्रोद्द्योतनामा एकोनविंशः प्रबन्धः ॥ ८ ॥ इदा- नीमात्मानं गतदोषं ज्ञापयन्संभोगार्थ प्रोत्साहयभाह - परिहरेति | हे कृतात मयि कृतान्य वनिता संगशङ्के, शङ्कां यज । अथवा मयि कृतात लद्वियोगदर्शन- संजातसंतापे शङ्कां त्यज । त्वां मयि संजातमनोविकल्पां दृष्ट्वा मयि संतापो जायत - प्रकारेण सुरवैरिणः कृष्णस्य राधिकामधि लक्षीकृत्य वचनजातं वाक्यसमूहो जयति सर्वोत्कर्षेण वर्तताम् । कीदृशम् । चटुलं मनोहरं चाट्ठ प्रीतियुक्तं पटु चतुरं चारु सुकुमारम् | पुनः कीदृशम् । पद्मावती जयदेवपली तस्या रमणो वल्लभो यो जयदेवः कविभारत्या भारतीसंज्ञया कवित्ववृत्त्या भणितं वर्णितम् । जयदेवकवेर्भारत्या भणित- मिति तु व्याख्यानं मन्दम् । तथा पौनरुत्यापत्तेः । जयदेवकविभणितमित्यस्यैव सम्य- क्त्वात् । पुनः कीदृशम् । अतिशातमतिशयितं सुखं यस्मात्तादृशम् । भारतीवृत्तिलक्षणं 1 शृङ्गारतिळके-'प्रधानपुरुषप्राया सइक्रोक्तिनिरन्तरा | भारती सा भवेद्वृत्तिविरहास्याद्भु- ताश्रया ॥” इति । रसार्णवसुधाकरेऽपि-शृङ्गारादिषु सर्वेषु रसेष्वीष्टा ह्रि भारती ।' इति । 'चटुल: सुन्दरे चले' इति धरणिः । 'चटुचाटु प्रियं वाक्यम्' इति हरिश्चन्द्रः । 'पद्धस्तीक्ष्णे नीरोगे चतुरेऽन्यवत्' इति विश्व: । 'शर्मशातसुखानि च' इत्यमरः ॥ ८ ॥ परिहरेति । हे कृतातङ्के विहितसंतापे, मन्यनायिकाससंशयं परिहर त्यज । यतो मम स्वान्ते चित्रे ऽभ्यन्तरे विसनोस्तनुशून्यात्कामादन्यो धन्यो जनो न विशति । कुतो न प्रवि- १ ' जयति पद्मावतीरमणजयदेवकविभारती भणितमतिशातम् ॥ इति पाठः । १२ Digliced thy Google