पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ गीतगोविन्दकाव्यम् स्मरगरलखण्डनं मम शिरसि मण्डनं घेहि पदवल्लवमुदारम् । ज्वलति मयि दारुणो मदनकदनारुणो हरतु तदुपाहितविकारम् । प्रिये० ॥ ७ ॥ [सर्मः है १ 'देखि ' इति पाठः । २' कदनानको ' इति पाठः । Google 1 लसत्कान्तिमांश्चेति ईदृशोऽलक्तकरागो यत्र । एतावता अलक्तकरञ्जनसमकालमे शृङ्गारोत्पत्तिर्भवत्येव यूनाम् । किंभूतं चरणद्वयम् । स्थलकमलगअनं रागस्पर्धि । पुनः किंभूतम् । मम हृदयरञ्जनं मम चित्तानुकारि । किंभूतम् जनित उत्पादितो रतिरङ्गस्य रमणप्रमोदस्य परभागो यत्र । कान मोद्रेककारीत्यर्थः ॥ ६ ॥ अपि च । स्मरेति । हे राधे, मम शिरसि उदार चरणलक्षणै महत्पदपल्लवं पदं पल्लव इव लौहित्यकौमल्यशैत्यादिना मण्डनमिव धेहि आरोपय । किंभूतं पदपलवम् । स्मरगरलखण्डनं कामविषतापशमनम् । मयि विषये. दृारुणो मदनस्य यत्कदनं तदेवारुण इव सूर्य इव ज्वलति दीप्यते । स चरणपल्लवः ममः शिरसि निहितः सन् । तेन मदनकदनारुणजनिततापेन उपाहितविकारमारोपितवि कृतिं संतापं हरतु । अत्रान्तरेत्यादौ प्रौढा मानवती नायिका | अनुकूलो नायकः Dilized by 4 मम हृदयानुरागजनकम् । तथा चेदं मम हृदयं रज्यति । ममाप्यळक्तके नैतद्रअनमुचित मैवेति भावः । अत एव जनितो रतिर सुरतकौशले परभागः परस्परशोभा येन तार दृशम् । मयालक्तकेन चेदं रज्यते । तदेतौववधादौ मम हृदयलनं सत्परमशोभां दास्यतीति भावः । स्फुरतु मणिमञ्जरीत्यनेन भणनेन च विपरीतरतमत्राभिमतम् । ' परस्परं तु कान्तिः परभागः स कथ्यते इति धरणिः । ‘रङ्गः कौशलरागयो : * . इति च ॥ ६ ॥ स्मरेति । हे प्रिये, उदारं सुन्दरं पदपलवं चरणकिसलयं मम: शिरसि धेहि स्थापय । कीदृशम् | मण्डनं मम मस्तकस्यालंकरणम् । पुनः कीदृशम् । स्मरस्य यद्गरलं विषं तस्य खण्डनं नाशनम् । विरहिणां मूर्च्छादिप्रदानेन मलया-: निले स्मरगरलत्वरूपणात्स्मरस्य सर्पत्वमाक्षिप्यते । चरणपलवं विधेहीत्यनेन ना• विकाया गारुडिकत्वं चेत्याक्षेपरूपकमिदम् । अपरमपि सर्पादिविषं गारुडिकचरणा". घातेनाभिमन्त्रितपळवारोपणेन च शाम्यतीति ध्वनिः । किं च । मयि दारुणो दुः सहो मदनकदनारुणो मदनः कामस्तजनितं यत्कदनं तापः स एवारुणः सूर्यो, ज्वरूति । अतस्तेनोपाहितं जनितं विकारं श्रान्त्यादिरूपं हरतु दूरीकरोतु । अन्यः सूर्यसंतापः शिरसि पलवादिस्थापनेन शाम्यतीति ध्वनिः । 'अरुणोऽस्फुटरागें, स्यात्सूर्ये सूर्यस्य सारथौ ।' इति विश्वः । 'कदनं कलुषे तापे ' इति च ॥ ७ ॥ इत्यनेन "₁ 1