पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मार्गः १०३ रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् स्फुरतु कुचकुम्भयोरुपरि मणिमञ्जरी रञ्जयतु तव हृदयदेशम् । रसतु रसनापि तव घनजघनमण्डले घोषयतु मन्मथनिदेशम् । प्रिये० ॥ ५ ॥ स्थलकमलगञ्जनं मम हृदयरञ्जनं जनितरतिरङ्गपरभागम् ! भण मसृणवाणि करवाणि चरणद्वयं सरसलंसदलक्तकरागम् | प्रिये० ।। ६ ।। कुसुमशरभावेन यदि नीलनलिनाभमपि लोचनं कोकनदरूपं धारयति तर्हि एतदिदं _तवानुरूपम् ॥ ४ ॥ अपि च । स्फुरत्विति । हे तन्वि | तब कुचकुम्भयोरुपरि मणिमञ्जरी मणिः मञ्जरींव स्फुरतु । स्फुरन्ती च किं करोत्वियाह तव हृदयदेशं रञ्जयतु । अपि च । रशनापि तब निबिडजघनमण्डले रसतु शब्दं करोतु । सा तथाविधा किं करोत्वित्याह – मन्मथनिदेशं सर्वा एव मानिन्यो मानं मुक्खा कामवशगा भवन्त्विति कामाज्ञां घोषयतु ॥ ५ ॥ अपि च | स्थलकमलेति १ हे मसृणवाणि स्निग्धवाणि । भण आदिश । तव चरणद्वयं सरसलसदलक्तकरागं कर- चाणि । सरसः सनेहो लसन्योऽसावलक्तकस्वस्य रागो यत्र । अथ वा सह रसेन .शहारेण वर्तत इति सरसः । स चासौ तथा शृङ्गारोत्पत्तिद्वारेण स्पृहाजनकचासौ दृशम् । श्यामे लौहित्यापादनसमर्थायास्ते मम रञ्जनमनुरूपमेवेति । यश्च बाणेन ताज्यते स रुधिरादिना रक्तो भवत्येवेति भावः । कुसुमशरबाणभावेनानेन नयनेन कृष्णं नन्दा- स्मर्ज मां रञ्जयसि प्रणयास्पदं करोषीति । इदमे तस्यास्तवानुरूप मेवेति प्रकृतार्थी भवेत् । ‘कोकनदं रक्तकैरवे रक्तपङ्कजे' इति विश्वः ॥ ४ ॥ स्फुरत्विति । मणिमअरी मणिपर- उम्परा कुचकुम्भयोः स्तनकलशयोरुपरि स्कुरतु चचला भवतु | तव हृदयदेशं वक्षःप्र- "देशं रञ्जयतु स्वरश्मिभिः शोभयतु । त्वन्नयननलिनं रक्तत्वं धत्ते त्वं च कृष्णं मां रक्ष- 'यसि । अतो मणिमश्ररी अर्पिता वक्षो यदि रञ्जयति तदानुरूपं भवतीति भावः । अत्र • केलीरूपशुभकमरम्भ मञ्जरीयुक्तपूर्णकलशस्थापनमुचितमेवेति सूचनाय कुचयो: कल- शत्वेन रूपणं मणिपरम्परायाश्च मञ्जरीत्वेन रूपणम् । सव वनजघनमण्डले मांसलज- धनभागे रशनापि क्षुद्रघण्टिकापि रसतु शब्दायमाना भवतु । मन्मथनिदेशं कामाशां घोषयतु वारं वारं कथयतु । कामाशया 'भो: केलि कुरुत' इति कामाशया सर्वे विकासिनो रमतामिति वा मन्मथनिदेशं घोषयत्विति भावः ॥ ५ ॥ स्थळेति । हे मसणवाणि लिग्धवचने, भण आशां देहि । तव चरणद्वयं सरसगलदलतकरागं सरसः सान्द्रो लसन्नलक्तकरागो महारञ्जनरागो यस्य तादृशं करवाणि कुर्याम् । कीदृशम् । स्थलकमलगअनं स्थलोत्पन्नं यत्कमलं स्वकान्त्या तस्य सिरस्कारकम् । पुनः कीदृशम् । १' सरसगलदल' इति पाठः । Google D gilicad by