पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्क्षणादेहजे वहौ भस्मीभूतानयाभवत् । का भक्ति का च तत्प्रीतिव्रतं तस्याश्च किं पुनः M. इति श्रुत्वा वचस्तस्या राशी विस्मयमागता । किमिदं भाषसे साध्वि कथमेवं भविष्यसि ॥ परीक्षां कारयिष्यामि किंचित्कालं प्रतीक्ष्य च । इति श्रुत्वा वचस्तस्या राशी विस्मयमागता || पद्मावत्यपि तां राज्ञीं समाभाष्य गृहं ययौ । अयैकस्मिन्दिने राजा द्रष्टुं श्रीपुरुषोत्तमम् ॥ जगाम जयदेवं तं पुरस्कृत्यातिभक्तितः । उवास तत्र तां रात्रि जयदेवेन संगतः ॥ अथ प्रभाते संजाते यावद्राजा न चागतः । तावदेव तु सा राज्ञी कविपक्षीं समाहृयत् ।। पद्मावती समायाता राशीं प्राह करोमि किम् । तां दृष्ट्वा राजपत्नी सा रुरोदाइ च विह्वला || राज्ञा सह कबिस्तत्र देवं द्रष्टुं गतः किल । तत्र कस्माद्विना दुःखं पतिस्ते देहमयजत् ॥ तद्दुःखवशगो राजा नायाति स्वगृहं पुनः । अमी समागता भृत्याः कथयन्तीदमप्रियम् ॥ इति श्रुत्वा वचस्तस्या राश्या: पद्मावती सती | अहो किमिदमित्युक्त्वा तूष्णीं तस्थौ क्षणार्धतः ॥ निपपात पृथिव्यां सा गतासुरभवत्तदा । अथ राशी समागत्य हाहाकार मुहुर्मुहुः ॥ कुर्वन्ती स्वयमेवात तामुत्थाय पतिव्रता । नोत्तस्थौ तां मृतां ज्ञात्वा राज्ञी शोकसमाकुला !! भयार्ता विललापाथ गईयन्ती निजां क्रियाम् । अथ तत्र गताः सर्वे राजदाराः समन्ततः ॥ चुक्रुशुः शोकसंतप्ताः किं जातमिति चानुवन् । अथ राजापि कविना समायातोऽतिविस्मितः ।।

  • श्रुत्वा कोलाहलं शीघ्रं ययावन्तःपुरं स्व॒यम् ।

जयदेवेन सार्द्धं च तत्र गत्वा ददर्श ६ ॥ पद्मावर्ती मृतां भूमौ राजा त्वाह प्रियां प्रति । कि जातमस्या येनेयं मृता कस्मात्कविप्रिया ॥ श्रुत्वा राज्ञी नृपवचो भीता प्राह कृताञ्जलिः । मम दुश्चरितं नाथ क्षम्यतां कथयामि ते ॥ तन भ्राता मृतः पूर्वे तत्पत्नी सा तमन्वगात् । तां दृष्ट्वा प्राह मामेषा कोऽयं पाखण्ड इत्यहो । ● Google Dilized by !