पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०] रसिकप्रिया–रसमञ्जर्याख्यटीकाद्वयोपेतम् सपदि मदनानलो दहति मम मानसं देहि मुखकमलमधुपानम् ॥ ध्रुवम् ॥ सत्यमेवासि यदि सुदति माय कोपिनी देहि खरनखरशरघातम् । घटय भुजबन्धनं जनय रदखण्डन येन वा भवति सुखजातम् | प्रिये० ॥ २ ॥ सपत्नीसंभोगलक्षणकारणरहितम् । सपदि साम्प्रतं भवतीति मानमपेक्ष्य मदनानलो मम मानसं दहति । तत्तापोपशान्त्यै मुखकमलमधुपानं देहीति ध्रुवः । अथ पदानि । यदसीति । हे प्रिये, किंचिदपि प्रियाप्रियनिरपेक्षं खल्पमपि वदसि । तदा तव दन्त- रुचिकौमुदी मम दरतिमिरं भयान्धकार हरति । किंभूतं भयान्धकारम् । अतीव घोरम् । अतीव भयानकहेतुत्वाद्भयानकम् । अत्र मयि स्थायी भयमेवोद्रितः सन् भयानकतामेध्यतीति 'विभावैरनुभावैश्व सात्विकैर्व्यभिचारिभिः । आनीयमानस्था- यित्वे स्थायीभावो रसः स्मृतः' इति । स च शृङ्गारविरोधी त्वया परिहरणीय एव । तव वदनचन्द्रमा मम लोचनचकोरं स्फुरन्योऽधरे शीधुस्तस्मै रोचयतु साभिलाषं करोतु । अधरशीधुचन्द्रिकार्य चन्द्रमसः सान्निध्यान्मन्नेत्रचकोरस्य स्पृहा जायते ॥ १ ॥ अपि च । सत्यमिति । हे सुदति शोभनदन्ते, सत्यमेव यदि मयि कोपिन्यसि । तर्हि सापराधे मयि खरनखरशरघातं देहि । भुजाभ्यां बन्धनं घटय | रदै: खण्डनं जनय । अथवा किमुद्दिश्यते । येन वा अपराधयोग्येन दण्डेन । तव सुखजातं भवति स एव विधीयताम् । प्रभूणां हि सापराधेषु भृत्येषु ताडन- 6 किंचिदपि उदासीनवचनमपि वदसि सदा दन्तरुचिकौमुदी तक दन्तानां या रुचि: सैव कौमुदी चन्द्रज्योत्ला सातिधोरमतिभीमं दरतिमिरं दरः साध्वसं स एव तिमि रमन्धकारः । तद्धरति दूरीकरोति । अत्र साध्वसे सति पुरःस्थितमपि वस्तु न प्रकाशत इति साध्वसस्यान्धकारत्वेन निरूपणम् । दन्तरुचेश्व तन्नाशकत्वात्कौमुदीत्वेन निरूप- णम् । अथ च स्फुरस्कोपवशात्किचिञ्चलन्योऽपरः । तलक्षणं चोक्तम् । 'चन्द्रिकायां कौ- मुदी' इति विश्वः । 'दरः साध्वसगर्तयो: ' इति च । 'धोरं भीमे हरे घोरः' इत्यपि । 'शीधु निमशिमृते (?) ' । शीधुशब्दः पुंस्यपि पुनपुंसक शेषेऽमरसिंहः- 'कुष्टं मुण्डं शीषु बुस्तम्' इति । अत्राधरशीधवे इत्यत्र तादर्थ्यविवक्षायां चतुर्थी । न तु लोचनचकोरमि- त्यत्र 'रुयर्थानां प्रीयमाणः' इति चतुर्थी । कुतो नेति चेत् । अन्यकर्तृको ऽभिलाषो रुचि: । इह तु वदनचन्द्रमसोर्न प्रीतिजनकत्वं विवक्षितम् ॥ १ ॥ सत्यमेवेति । हे सुदति शोभनदशने, त्वं सत्यमेव यथार्थमेव यदि कोपवत्यसि तदा खरास्तीक्ष्णा ये नखास्त एव बाणास्तैर्षात प्रहारं देहि । तेनापि यदि न तुष्यसि तदा भुजाभ्यां बाहुभ्यां बन्धनं घटय । तेनाव्यसंतोषे रदखण्डनं रदैर्दशनैः खण्डनमधरे क्षतं जनय । येन वा सुखजातं सुखसमूहो भवति तदेव कुरु । यथा च मय्यपराधानुकूलं दण्डं विधाय कोपं मुजेति भावः । सुदति शोभना दन्ता अस्या इति वाक्ये दन्तस्येति दत्तादेशः । 'जातं जात्योच- । Dgilized by Google