पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ गीतगोविन्दकाव्यम् दशमः सर्गः । चतुरचतुर्भुजः । अत्रान्तरे मेसृणरोषवशोमपार- निःश्वासनिःसहमुखीं मुमुखीमुपेत्य । सत्रीडमीक्षितसखीवदनां दिनान्ते सानन्दगद्गदपदं हरिरित्युवाच ॥ १ ॥ देशवराडीरागाष्टतालाभ्यां गीयते । प्र० १९ ।। वदसि यदि किञ्चिदपि दन्तरुचिकौमुदी हरति दरतिमिरमतिघोरम् । स्फुरदधरशीधवे तव बदन चन्द्रमा रोचयतु लोचनचकोरम् ॥ १ ॥ मिये चारुशीले मुख मयि मानमनिदानम् । [सर्गः १० इदानीं सायंकृतसस्त्रीकृत्यां स्मरशरजर्जरितकोपां खयमनुनयति–अत्रान्तर इति । अत्रान्तरेऽस्मिन्नवसरे दिनान्ते हरिः सब्रीडं यथा स्याप्तथा सुमुखीं राधा- मुपेत्य सानन्दगद्गदपदं सहर्षविकलिताक्षरं यथा स्यात्तथा इति वक्ष्यमाणमुवाच । पुनः कथं यथा स्यात्तथा। किंभूताम् । मसृणरोषवशां स्निग्धरोषरागाम् । कोमलसखी- वचनैः किंचिन्नमितरोषाम् । पुनः किंभूताम् । अपार निःश्वासनिःसहमुखीं निरहसह- नासमर्थाननाम् । वसन्ततिलका वृतम् ॥ १ ॥ तदेव वक्ष्यमाणमाह-चसीति । त प्रानुरोधेन क्रमपरिपार्टी परित्यज्य पूर्व ध्रुवपदं व्याक्रियते । प्रिये इति । हे प्रिये शोभनशीले मयि विषये यो मानः तं मुख परित्यज । किंभूतम् । अनिदानम् । अन्नान्तर इति। अत्रान्तरेऽस्मिन्नवसरे हरिः राधां समुपेत्य समीपं गत्वा प्रदोषे रात्रि- मुखे इति वक्ष्यमाणमुवाच । कीदृशीम् । अमऋणः कर्कशो यो रोषस्तस्मादसीमोऽधिको निःश्वासस्तेन निःसहं विरहदुःखसहनाक्षमं मुखं यस्यास्ताम् । पुनः कीदृशीम् । सव्रीड सकञं यथा स्यादेवमीक्षितं सख्या वदनं यथा ताम् । कथं यथा स्यात् । सानन्दगद्द्र- दपदम् । आनन्देन गद्गदपदं गलदक्षरवाक्सहितं यथा स्यात् ॥ १ ॥ तदेव गीतेन कथयति - वदसीति । गीतस्यास्य देशवराडीरागस्तालश्चाष्टतालः | गीतार्थस्तु - हे प्रिये राधे, चारु मनोहरं शीलं यस्यास्तादृशे, त्वं मयि मद्विषयेऽनिदानमकारणकं मानं मु यज । सपदि वन्मानकाल एवं मदनानल: कामाग्निर्मम मानसं दहति तापयति । अतो मुख- कमलममलं तरसंबन्धि यन्मधु तत्पानं देहि । चारुशीलत्वमेवाइबदसीति । त्वं यदि १ 'अत्रान्तरेऽमसृण' इति पाठः । २ 'नशादसीम' इति 'वशामसीम' इति च पाठः । ३ 'रोचयति' इति पाठः । Dgilized by ★ Google 1 1 ? 1 } • 1 1