पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ गीतगोविन्दकाव्यम् [ सर्ग: ९ तयुक्तं विपरीतकारिणि तब श्रीखण्डचर्चा विषं शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो यातनाः ॥ २ ॥ सान्द्रानन्द पुरन्दरादि दिविषवृन्दरमन्दादरा- दानम्रैर्मुकुटेन्द्रनीलमणिभिः संदर्शितेन्दिन्दिरम् । स्वच्छन्दं मकरन्दसुन्दर मिलन्मन्दाकिनीमेदुरं श्री गोविन्दपदारविन्दमशुभस्कन्दाय वन्दामहे ॥ ३ ॥ इति श्रीगीतगोविन्दे कलहान्तरितावर्णने मुग्धमुकुन्दों नाम नवमः सर्गः ॥ ९ ॥ तकारिणि विपरीतकृतप्रतिकरणशीले, यत्तव श्रीखण्डचर्चा चन्दनानुलेपो विष- मिव भवति । य च शीतांशुश्चन्द्रः तपन इव भवति । यच्च हिमं नीहारो हुतवह इव भवति । यद्य क्रीडामुदः केलिप्रमोदास्तीव्रवेदना इन भवन्ति । एतद्युतम् । विपरीतं य आचरति तस्य सर्वे विपरीतमेव भवति । तदेव विपरीतमाचरणं दर्शयति । यत्तस्मिन्नपि तादृशप्रियकारिण्यपि हरी सिग्धे सस्नेह रूक्षासि | सलेहे मेहराहित्यं वैपरीत्यम् । यच्च प्रणमति नतिशीले प्रिये स्तब्धासि । प्रणमत्य प्रवणत्वं वैपरीत्यम् । यच्च रागवति प्रद्वेषिण्यसि । अत्रापि ताहगेव वैपरीत्यम् । यश्च संमुखे प्रिये वैमुख्यं यातासि । संमुखे विमुखभावो वैपरीत्यम् ॥ अत्र शार्दूलविक्रीडितं वृत्तम् । विरोधालङ्कारः ॥ २ ॥ इदानीं सर्गान्ते सर्वविघ्नोपशमनार्थ गोविन्दं प्रणमति - सान्द्रेति । श्रीगोविन्दपदारविन्दं वन्दामहे नमस्कुर्महे । किमर्थम् | अशुभस्क- न्दाय अशुभनाशाय । किंविशिष्टम् । खच्छन्दं यथा स्यात्तथा मकरन्दसुन्दरा मकर- न्दसदृशी गलन्ती या मन्दाकिनी गङ्गा तया सान्द्रं खिग्धम् । अरविन्दे हि मकरन्दो भवति । तेन मन्दाकिनी उपभीयते इत्युपमालंकारः । पुनः किंभूतम् । सान्द्रानन्दा निबिड ये पुरन्दरादिदिविषदस्तेषां वृन्दैः मुकुटेन्द्रनीलमणिभिः संदर्शिता इन्दि- न्दिरा मधुषा यत्र तत्तथा । अत्र चरणयोः कमलोपमा । मन्दाकिन्याः मकरन्दोपमा प्रकटयति सति परुषासि निष्ठुरभाषिष्यसि । यच प्रणमति तस्मिस्तम्बासि । यच्च रागि- धनुरागवति तस्मिस्त्वं द्वेषस्थाति द्वेषमवलम्ब्य स्थितासि । यच्चोन्मुखे आकिङ्गनाय मुखेतस्मिस्त्वं विमुखतां यातासि पराव गतासि । तदेवोर्हे विपरीतकारिणि, एतत्सर्वे विपरीसमेव । एतत्क्रिम् | तब श्रीखण्डचर्चा चन्दनलेमो विषम् । यथा विषं भोकार मूर्च्छयति तथा चन्दनरूपोऽन्येषां सुखदोऽपि त्वां मूर्खयतीति भावः । अथ च शीतांशुरूपन: सूर्यः । अन्येषां शीतकस्वभाबोऽपि चन्द्रस्त्वयि सापप्रदत्वात्तपन इति भागः । हिमं तुषारोऽपि दुतवोऽग्निः । अथ च क्रीडामुदः सखी क्रीडाजन्या मुदः प्रमोदा या Dilized by ★ Google