पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. १२४ गीतगोविन्दकाव्यम् : [सर्ग: ९ तालफलादपि गुरुमतिसरसम् । किं विफलीकुरुषे कुचकलशम् ॥ माघ ० ॥ २ ॥ कति न कथितमिदमनुपदमचिरम् । मा परिहर हरिमतिशयरुचिरम् || माध० ॥ ३ ॥ किमिति विषीदसि रोदिषि विकला | विहसति युवतिसभा तवं सकला || माघ ० ॥ ४ ॥ सजलनलिनीदलशीतलशयने । हरिमवलोकय सफलय नयने ॥ माध० ॥ ५॥ परमधिकं किं सुखम् । न किंचिदपीत्यर्थः । अतः इति किम् । यन्मधोर्वसन्तस्य पवने वहति वाति सति हरिरभिसरति स्वयमायाति ॥ १ ॥ अपि च । ताल- फलादिति । हे राधे. कुचकलशं किं विफलीकुरुषे । हरिकरतलस्पर्शविलासा- भावाद्विफलमित्यर्थः । तालफलादपि गुरुं कठिनं महान्तं च । पुनः कीदृशम् । अति- शयेन सरसम् ॥ २ ॥ अपि च । कति नेति । हे सखि, अतिशयरुचिरं हरिं मा परिहर इदं वचनमचिरं सांप्रतमनुपदं स्थाने कतिवारं न कथितम् ॥ ३ ॥ अपि च । किमितीति । हे सखि, इति अमुना प्रकारेण विषादं कुरुषे ऽतिविकला सती किमिति रोदिषि | सकला युवतिसभा तव इति चेष्टितं हसति ॥ ४ ॥ अपि च । स सरणादन्यर्दिकं सुखम् | अपि तु न किंचिदित्यर्थः । 'मधु क्षीरे जले क्षौद्रे मद्ये पुष्परसे मधुः । दैत्ये चैत्रे वसन्ते च जीवाशोके मधुद्रुमे ॥ इति विश्वः ॥ १ ॥ किं च | ताकेति । कुचकलशं करुशवत्पीनं मांसलं स्तनं किमिति विफली कुरुषे । कृष्णकरस्पर्शादेव कुच कलशयोः साफल्यम् । तदभावे वैफल्य मिति भावः । तालफलापेक्षयापि गुरुं कठिनमति- सरसं च । रसः शृङ्गाराख्यस्तत्सहितम् । तालफलपक्षे रसो माधुर्य तत्सहितम् । अति- मर्दनेन वै रसप्रदत्वं भवति । अपरः कलशोऽपि पूर्णः सन्गुरुर्भवति । रसो जरूं तत्सहितश्च भवतीत्यपि ध्वनितम् ॥ २ ॥ ननु यदा हरिरायातस्तदा त्वयापि नोक्तमित्यत आह - कति नेति- इदमचिरं सांप्रतमेवानुपदं स्थानं स्थानं प्रति मया कथितं कियन्न कथित- मपि तु बहु कथितम् । इदं किम् | हरिमतिशय रुचिरमतिशयेन मनोहरं मा परिहर उपेक्षस्व ॥ ३ ॥ किमिति – त्वं किमिति किमर्थं विषोदसि विषण्णा भवसि । ननु नास्मि विषण्णेत्यत आहे - रोदिषीति | विकला विव्हला सती रोदिषि रोदनं करोषि । अत एव सकला समस्ता युवतिसभा हसतीति भावः । यद्वा इये मानापनोदाय, प्रण- तमपि प्रियमुपेक्ष्य संप्रति रोदितीति मानपरिपार्टी न जानासि | सकला चतुःषष्टिकला- सहिता युवतिसभा इसतीति भावः ॥ ४ ॥ तहि किमित्यत आइ-सजलेति । हे सजलनलिनीदलशीतलशयने, जलसहितानि यानि नलिनीदलानि कमलिनी पत्राणि तेषां शीतलं शयनं शय्या यस्थास्तादृशे, स्वं पुरः स्थितं हरिं कृष्णमवलोकय पश्य । अत । Dogolicead thy Google 1 I ! 1 1 A 1 1