तवेदं पश्यन्त्याः प्रसरदनुरागं बहिरिव
प्रियापादालतच्छुरितमरुणयोतिहृदयम् ।
ममाद्य प्रख्यातप्रणयभरभङ्गेन कितव
त्वदालोकः शोकादपि किमपि लज्जां जनयति ॥ २ ॥
अन्तर्मोहनमौलिघूर्णनचेलम्मन्दारविभ्रंशन-
स्तम्भाकर्षणदृप्तिहर्षणमहामन्त्रः कुरङ्गीदृशाम् ।
योजिता धातुवरेण भणत रसरताः ॥ ८ ॥ इदानीं खण्डितापि प्रौढत्वमालम्ब्य तमधिक्षिपति–तवेदमिति । हे कितव, त्वदालोकोऽय मम शोकादपि किमपि अधिकतरां लज्जां जनयति । त्वदर्शनेन शोकं पराकृत्य लज्जैवाधिकाभूत् । तत्र पूर्वेशोके कारणमाइ—प्रख्यातस्य जगद्विदितस्य स्नेहातिशयभङ्गेन ।अतो लज्जां प्रति हेतु-गर्भे विशेषणमाह। किंभूताया मम तवेदं हृदयं पश्यन्त्याः । किंभूतं हृदयम् ।प्रियायाः यावककबुरितम् । अत एवारुणद्योति अरुणस्य द्योत इव द्योतो विद्यतेयस्य तत्तथा । अरुणवत्सन्ध्यारागवद्द्योतनशीलं वा । उत्प्रेक्षते । बहिः प्रसरद-नुरागमिक । बहिः प्रसरन्नलक्तकव्याजेन तदनुरागो यस्मिन् । बहुमानपुरःसरमुपभोगयोग्यस्य कौस्तुभस्य प्रेष्यापादाहतिर्लजाधिक्ये हेतुः । तन प्रेष्योपभोगे लज्जापि नास्तीति व्यङ्ग्यम् । अत्र शिखरिणीवृत्तम् ॥ २ ॥ इदानीं सर्गान्ते मङ्गलाचरणाशिषमाह - अन्तर्मोहनेति । कंसारे: श्रीकृष्णस्य वंशीरवः पाविकाध्वनिःवो युष्माकं श्रेयांसि विपोलयतु विपुलीकरोतु । किंभूतो वंशीरवः।दृप्यद्दानववूय-मानदिविषद्दुर्वारदुःखापदां अंशो दृप्यद्भिर्दान वैर्दूयमाना ये दिविषदस्तेषां दुःखापदांहेतुत्वशः । पुनः किंभूतः । कुरङ्गीदृशामन्तर्मोहनमौलिघूर्णनचलन्मन्दारविधं-दानस्तंम्भाकर्षणहतिहर्षणमहामन्त्रः । अन्तर्मोहनेत्यादिदृप्तिपदान्तो द्वन्द्वः । तेषांसंहर्षो योगः तत्र महामन्त्र इव । अन्तर्मोहनं मनोमोहनम् । अनेन मोहनं मौलिघूर्ण सार्वविभक्तिकस्तसिरिति नियमात् ॥ ८ ॥ तवेदमिति । हे कितम धूर्त, खदालोकस्तवदर्शनम् । प्रख्यातः प्रसिद्धो यः प्रणयभरोऽनुरागातिशयस्तस्य भनेन नाशेन हेतुना शोकादिदुःखादपि किमप्यनिर्वचनीयं लज्जां जनयति । कीदृश्या मे । तवेदं प्रत्यक्षं
हृदयं पश्यन्त्याः । कीदृशम् । प्रियापादालक्तकैः प्रियायाश्चरणसंबन्धियावकैयप्तम् । अस एवारुणच्छायमरुणच्छाया दीप्तिर्यस्य तादृशम् । किमिव बहि:असरदनुरागमिव हृदयं परिपूर्णाधिक्याद्वहिः निःसरत् । प्रेम्णैव या राधा पूर्व सौभाग्यगर्वेण न कांचन गणयति स्म सा इदानीं समक्षमन्यनायिकाचरणालक्तकं हृदयं पश्यन्ती जीवत्येवेति विपक्षयुवतीपरिहासशङ्कया शोकादपि मेऽधिकलज्जा भवतीति भावः । 'छाया स्यादातपाभावे-
१ 'रुणच्छाय' इति पाठः ।२ 'चलन्मन्दारविस्रंसन' इति पाठः ।३ 'स्तब्धाकर्ष-
मदृष्टिहर्षण' इति पाठः ।
११
Dalicend thy Google