पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८] रसिकप्रिया- रसमझर्याख्यटीकाद्वयोपेतम् तवेदं पश्यन्त्याः प्रसरदनुरागं बहिरिव प्रियापादालतच्छुरितमरुणयोतिहृदयम् । ममाद्य प्रख्यातप्रणयभरभङ्गेन कितव त्वदालोकः शोकादपि किमपि लज्जां जनयति ॥ २ ॥ अन्तर्मोहनमौलिघूर्णनचेलम्मन्दारविभ्रंशन- स्तम्भाकर्षणदृप्तिहर्षणमहामन्त्रः कुरङ्गीदृशाम् । योजिता धातुवरेण भणत रसरताः ॥ ८ ॥ इदानीं खण्डितापि प्रौढत्वमालम्ब्य तमधिक्षिपति–तवेदमिति । हे कितव, त्वदालोकोऽय मम शोकादपि किमपि अधिकतरां लज्जां जनयति । त्वदर्शनेन शोकं पराकृत्य लज्जैवाधिकाभूत् । तत्र पूर्वे शोके कारणमाइ—प्रख्यातस्य जगद्विदितस्य स्नेहातिशयभङ्गेन । अतो लज्जां प्रति हेतु- गर्भे विशेषणमाह। किंभूताया मम तवेदं हृदयं पश्यन्त्याः । किंभूतं हृदयम् । प्रियायाः यावककबुरितम् । अत एवारुणद्योति अरुणस्य द्योत इव द्योतो विद्यते यस्य तत्तथा । अरुणवत्सन्ध्यारागवद्द्योतनशीलं वा । उत्प्रेक्षते । बहिः प्रसरद- नुरागमिक । बहिः प्रसरन्नलक्तकव्याजेन तदनुरागो यस्मिन् । बहुमानपुरःस- रमुपभोगयोग्यस्य कौस्तुभस्य प्रेष्यापादाहतिर्लजाधिक्ये हेतुः । तन प्रेष्योपभोगे लज्जापि नास्तीति व्यङ्ग्यम् । अत्र शिखरिणीवृत्तम् ॥ २ ॥ इदानीं सर्गान्ते मङ्ग- लाचरणाशिषमाह - अन्तर्मोहनेति । कंसारे: श्रीकृष्णस्य वंशीरवः पाविकाध्वनिः वो युष्माकं श्रेयांसि विपोलयतु विपुलीकरोतु । किंभूतो वंशीरवः । दृप्यद्दानववूय- मानदिविषद्दुर्वारदुःखापदां अंशो दृप्यद्भिर्दान वैर्दूयमाना ये दिविषदस्तेषां दुःखापदां हेतुत्वशः । पुनः किंभूतः । कुरङ्गीदृशामन्तर्मोहनमौलिघूर्णनचलन्मन्दारविधं- दानस्तंम्भाकर्षणहतिहर्षणमहामन्त्रः । अन्तर्मोहनेत्यादिदृप्तिपदान्तो द्वन्द्वः । तेषां संहर्षो योगः तत्र महामन्त्र इव । अन्तर्मोहनं मनोमोहनम् । अनेन मोहनं मौलिघूर्ण- सार्वविभक्तिकस्तसिरिति नियमात् ॥ ८ ॥ तवेदमिति । हे कितम धूर्त, खदालोकस्तव दर्शनम् । प्रख्यातः प्रसिद्धो यः प्रणयभरोऽनुरागातिशयस्तस्य भनेन नाशेन हेतुना शोकादिदुःखादपि किमप्यनिर्वचनीयं लज्जां जनयति । कीदृश्या मे । तवेदं प्रत्यक्षं हृदयं पश्यन्त्याः । कीदृशम् । प्रियापादालक्तकैः प्रियायाश्चरणसंबन्धियावकैयप्तम् । अस एवारुणच्छायमरुणच्छाया दीप्तिर्यस्य तादृशम् । किमिव बहि: असरदनुरागमिव हृदयं परिपूर्णाधिक्याद्वहिः निःसरत् । प्रेम्णैव या राधा पूर्व सौभाग्यगर्वेण न कांचन गणयति स्म सा इदानीं समक्षमन्यनायिकाचरणालक्तकं हृदयं पश्यन्ती जीवत्येवेति विपक्षयुवती- परिहासशङ्कया शोकादपि मेऽधिकलज्जा भवतीति भावः । 'छाया स्यादातपाभावे- १ 'रुणच्छाय' इति पाठः । २ 'चलन्मन्दारविस्रंसन' इति पाठः । ३ 'स्तब्धाकर्ष- मदृष्टिहर्षण' इति पाठः । ११ Dalicend thy Google